________________
३. परोक्ष-प्रकाशः
/ परोक्षप्रमाणं पञ्चधा विभज्य तस्य प्रत्ययान्तरसापेक्षत्वप्रतिपादनम् ]
६३. 'तत् पञ्चविधम् - स्मृतिः, प्रत्यभिज्ञानम्, तर्कः, अनुमा श्रागमश्चेति । पञ्चविधस्याऽप्यस्य । परोक्षस्य प्रत्ययान्तरसापेक्षत्वेनैवोत्पत्तिः2। तद्यथा - स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभव - स्मरण - प्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिङ्गदर्शनाद्य पेक्षा, श्रागमस्य शब्दश्रवण-सङ्केतग्रहणाद्यपेक्षा, प्रत्यक्षस्य तु न तथा 'स्वातन्त्र्येणैवोत्यत्तेः । स्मरणादीनां प्रत्ययान्तरापेक्षा तु तत्र तत्र निवेदयिष्यते । [स्मृतेनिरूपणम् ]
I
६४. तत्र च4 का नाम स्मृतिः ? तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः, यथा स देवदत्त इति । यत्र हि प्रागनुभूत एव 'देवदत्तस्तत्तया' प्रतीयते । तस्मादेषा प्रतीतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः । 'तन्मूलं चानुभवो धारगारूप एव' अवग्रहाद्यनुभूतेऽपि धारणाया प्रभावे स्मृतिजननायोगात् । धारणा हि तथाऽऽत्मानं संस्करोति, यथाऽसावात्मा कालान्तरेऽपि तस्मिन् विषये ज्ञानमुत्पादयति । तदेतद्धारणाविषये समुत्पन्नं तत्तोल्लेखिज्ञानं स्मृतिरिति सिद्धम् ।
५३
नम्,
१ परोक्षप्रमाणम् । २ ज्ञानान्तरापेक्षत्वेन । ३ श्रादिपदेन व्याप्तिग्रहणादेर्परिग्रहः । ४ प्रत्ययान्तरनिरपेक्षत्वेनैव । ५ यथावसरम् । ६ तदोभविस्तत्ता तया, 'तत्' शब्दोल्लेखेन । ७ स्मृतेः कारणम् । ८ एवकारेणा
1 द प्रतौ 'अस्य' इति पाठो नास्ति । 2 द 'त्तेः' पाठः । 3 'प्रत्यक्ष' इति मुदितप्रतिषु पाठः । 4 'च' इति मुद्रितप्रतिषु नास्ति ।