________________
न्याय-दीपिका
तथा परोक्षमपीति न सामान्यमात्रविषयत्वं परोक्षलक्षणम् अपि त्ववैशद्यमेव । सामान्य-विशेषयोरेकत रविषयत्वे तु प्रमाण त्वस्यवाऽनुपपत्ति:2, सर्वप्रमाणानां सामान्य-विशेषात्मकवस्तुवि षयत्वाभ्यनुज्ञानात् । तदुक्तम्-“सामान्यविशेषात्मा तदर्थ विषयः”– [परीक्षा० ४-१] इति । तस्मात्सुष्ठूक्तं ‘अविशदावभा सनं परोक्षम्' इति ।
कुर्वत् दृष्टम् ।
१ इति शब्दोऽत्र हेत्वर्थे वर्तते, तथा च इति हेतोरित्यस्मात कारणादित्यर्थः । २ असम्भवः । ३ अभ्युपगमात् । ४ अत्रेदं बोध्यम — 'परोक्षमविशदज्ञानात्मकं परोक्षत्वात्, यन्नाविशदज्ञानात्मकं तन्न परोक्षम्, यथाऽतीन्द्रियप्रत्यक्षम्, परोक्षं च विवादाध्यासितं ज्ञानम्, तस्मादविशदज्ञानात्मकम्'—प्रमाणप० पृ० ६६ । 'कुतोऽस्य परोक्षत्वम् ? परायत्तत्वात् । पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्य निमित्त प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मन उत्पद्यमानं मतिश्रुतं परोक्षमित्याख्यायते'–सर्वार्थ० १-११, न च परोक्षेण प्रमेयं न प्रमीयते परोक्षत्वादिति वाच्यम्, तस्यापि प्रत्यक्षस्येव सामान्यविशेषात्मकवस्तुविषयत्वाभ्युपगमात् । नाऽप्यस्याज्ञानरूपताऽप्रमाणता वा, 'तत्प्रमाणे' (तत्त्वार्थसू० १-१०) इति वचनेन प्रत्यक्षपरोक्षयोयोरपि प्रमाणत्वाभ्युपगमात् । तदुक्तम्
'ज्ञानानुवर्तनात्तत्र नाज्ञानस्य परोक्षता । प्रमाणस्यानुवृत्तेर्न परोक्षस्याप्रमाणता ॥'
-तत्त्वार्थश्लो० १, ११, ६ ।
1 द प्रतौ ‘एव' इति पाठो नास्ति । 2 द प्रतौ 'त्तेः' इति पाठः ।