________________
३. परोक्षप्रकाशः
-:
[ परोक्षप्रमाणस्य लक्षणम् ]
1
१. अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते । प्रविशदप्रतिभासं परोक्षम् । अत्र परोक्षं लक्ष्यम्, प्रविशदप्रतिभासत्वं लक्षणम् । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । वैशद्यमुक्तलक्षणम्' । ततोऽन्यद वैशद्यमस्पष्टत्वम् । '`तदप्यनुभवसिद्धमेव ।
$ २. सामान्यमात्रविषयत्वं परोक्षप्रमाणलक्षणमिति केचित् ' ; तन्न; प्रत्यक्षस्येव परोक्षस्यापि सामान्य विशेषात्मकवस्तुविषयत्वेन तस्य" लक्षणस्याऽसम्भवित्वात्' । तथा हि-घटादिविषयेषु प्रवर्त्तमानं प्रत्यक्षं प्रमाणं तद्गतं " सामान्याकारं घटत्वादिकं "व्यावृत्ताकारं व्यक्तिरूपं । च "युगपदेव प्रकाशयदुपलब्ध,
-
१ द्वितीयप्रकाशे प्रत्यक्षप्रमाणं निरूप्येदानीमिह परोक्षप्रमाणस्य निरूपणं प्रारभते प्रथेति । २ स्पष्टत्वं वैशद्यं तदेव नैर्मल्यमित्युक्तं पूर्वं वैशद्यलक्षणम् । ३ वैशद्यात् । ४ विपरीतम् । ५ प्रवैशद्यमपि, यथा नैर्मल्यं स्पष्टत्वमनुभवसिद्धं तथाऽस्पष्टत्वमनैर्मल्यमप्यनुभवसिद्धमेवेति भावः । ६ बौद्धा: । ७ सामान्यमात्रविषयत्वमिति परोक्षलक्षणस्य । ८ असम्भवदोषदुष्टत्वात्, तथा च तस्य लक्षणाभासत्वमिति भावः । & परोक्षस्य सामान्यविशेषात्मकवस्तुविषयत्वमेव न सामान्यमात्रविषयत्वमिति प्रदर्शयति तथा हीति । १० घटादिनिष्ठम् । ११ अनुगताकारम् । १२ घटादिभ्यो व्यवच्छेदात्मकम् । १३ सहैव । १४ अनुवृत्ताकारव्यावृत्ताकारोभयं विषयी - 1 ' च विशेषरूपं ' इति श्रा प्रतिपाठः