SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ न्याय-दीपिका २७. इति कारिकाद्वयेन एतयोरेव ‘परात्माभिमततत्त्वबाधाबाधयोः' समर्थन प्रस्तुत्य “भावैकान्ते" [का०६] इत्युपक्रम्य "स्यात्कारः सत्यलाञ्छन: [का० ११२] इत्यन्त प्राप्तमीमांसासन्दर्भ इति कृतं विस्तरेण । २८. तदेवमतीन्द्रियं केवलज्ञानमहत 1एवेति सिद्धम् । 'तद्वचनप्रमाण्याच्चावधिमनःपर्यययोरतीन्द्रिययोः सिद्धिरित्यतीन्द्रियप्रत्यक्षमनवद्यम् । तत: स्थितं सांव्यवहारिकं पारमार्थिक चेति द्विविधं प्रत्यक्षमिति । इति श्रीपरमार्हताचार्य-धर्मभूषण-यति-विरचितायां न्यायदीपिकायां प्रत्यक्षप्रकाशो द्वितीयः ॥२॥ .१ पराभिमते कपिलाद्यभिमते तत्त्वे सर्वथैकान्तरूपे बाधा, आत्माभिमते जैनाभिमते तत्त्वेऽनेकान्तरूपेऽबाधा बाधाभावस्तयोः । २ प्रस्तावभूतं कृत्वा । भावकान्ते पदार्थानामभावानामपह्नवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥६॥ "सामान्यवाग् विशेषे चेन्न शब्दार्था मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥११२॥ इति सम्पूर्ण कारिके । ५ अलम् । ६ 'वक्तुः प्रामाण्यात् वचनप्रामाण्यम्' इति न्यायादर्हत: प्रामाण्यसिद्धेः तदुपदिष्टावतीन्द्रियाववधिमनःपर्ययावपि सिद्धाविति प्रतिपत्तव्यम् । 1 द प प्रत्यो: 'एव' पाठो नास्ति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy