________________
२. प्रत्यक्ष-प्रकाश:
४६ 'त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । प्राप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते।।[आप्तमी.का.६-७]
यतो वक्तुर्दोषजातिः (इच्छा) अनुमीयेत' । XXX 'विज्ञानगुणदोषाभ्यामेव वाग्वृत्तेर्गुणदोषवत्ता व्यवतिष्ठते, न पुनर्विवक्षातो दोषजातेर्वा । तदुक्तम्
विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता । बाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥अप्टस०पृ० ७३ । अन्यच्चोक्तम्
विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्ष्यते। . वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥ प्रज्ञा येषु पटीयस्यः प्रायो वचनहेतवः । विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ॥
-न्यायवि० ३५४-५५ । ४ ततः साधूक्तं तत्रेष्टं शासनं मतमिति । ५ प्रमाणेन अनित्यत्वायेकान्तधर्मेण वा । ६ अनेकान्तात्मकं तवेष्टं तत्त्वं नानित्यत्वाद्येकान्तधर्मेण बाध्यते तस्यासिद्धत्वात्, प्रमाणत: सिद्धमेव हि कस्यचिद बाधक भवति । न चानित्यत्वाद्यकान्ततत्त्वं प्रमाणत: सिद्धम्, ततो न तत्तवानेकान्तशासनस्य बाधकमिति भावः ।
१ त्वन्मतं त्वदीयमनेकान्तात्मकं तत्त्वं तज्ज्ञानं च, तदेवामृतं ततो बाह्या बहिष्कृतास्तेषाम्, सर्वथैकान्तवादिनां सर्वप्रकारैनित्यत्वानित्यत्वाद्येकधर्म स्वीकुर्वताम्, 'वयमाप्ताः' इत्यभिमानेन दग्धानां भस्मीभूतानां कपिलादीनां स्वेष्टं सदाधकान्ततत्त्वं प्रत्यक्षेणैव बाध्यते, अत: किमनुमानादिविहितबाधाप्रदर्शनेन ? सकलप्रमाणज्येष्ठत्वात्प्रत्यक्षस्य । 'न हि दृष्टाज्ज्येष्ठ गरिष्ठमिष्टं नाम' । ततः प्रत्यक्षबाधाप्रदर्शनेनैवानुमानादिबाधा प्रदर्शिता भवतीत्यवसेयम् ।