________________
४८
न्याय - दीपिका
तत्त्वम्, तस्मात्तत्र त्वं युक्तिशास्त्राविरोधिवाक् इति विषयस्य ( भगवतो मुक्त्यादितत्वस्य) युक्तिशास्त्राविरोधित्व सिद्धेर्विषयिण्या भगवद्वाचो युक्तिशास्त्राविरोधित्वसाधनं ( समर्थितं प्रतिपत्तव्यम्) - प्रष्टस० पृ० ७२ ।
ननु इष्टं इच्छाविषयीकृतमुच्यते, इच्छा च वीतमोहस्य भगवतः कथं सम्भवति ? तथा च नासौ युक्तिशास्त्राविरोधिवाक् ; तन्न; इष्टं मतं शासनमित्युपचर्यते, तथा च उपचारेण सयोगिध्यानवत्तदभ्युपगमे दोषाभावात् । ग्रनुपचारतोऽपि भगवतोऽप्रमत्तेच्छास्वीकारे न दोषः । तदुक्तम्अप्रमत्ता विवक्षेयं अन्यथा नियमात्ययात् । इष्टं सत्यं हितं वक्तुमिच्छा दोषवती कथम् ? ॥ — न्यायवि० का० ३५६
वस्तुतस्तु भगवतो वीतमोहत्वान्मोहपरिणामरूपाया इच्छायास्तत्रासम्भवात् । 'तथा हि— नेच्छा सर्वविदः शासनप्रकाशननिमित्तं प्रणष्टमोहत्वात् । यस्येच्छा शासनप्रकाशननिमित्तं न स प्रणष्टमोहो यथा किंचिज्ज्ञः, प्रणष्टमोहश्च सर्ववित्प्रमाणतः साधितस्तस्मान्न तस्येच्छा शासनप्रकाशननिमित्तम् ।' श्रष्टस० पृ० ७२ । न चेच्छामन्तरेण वाक्प्रवृत्तिर्न सम्भवतीति वाच्यम्, नियमाभावात् । 'नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । न हि सुषुप्तौ गोत्रस्खलनादौ वाग्व्यवहारादिहेतुरिच्छास्ति' अष्टस० पृ०७३, ततो न वाक्प्रवृत्तेरिच्छापूर्वकत्वनियमः, तस्य सुषुप्त्यादिना व्यभिचारात्, अपि तु 'चैतन्य-करणपाटवयोरेव साधकतमत्वम्' (अष्टश०, अष्टस० पृ० ७३) वाक्प्रवृत्तौ संवित्करणपाटवयोः सत्त्वे एव वाक्प्रवृत्तेः सत्त्वं तदभावे चासत्त्वम् । तस्माच्चैतन्यं करणपाटवं च वाचो हेतुरेव नियमतो न विवक्षा, विवक्षामन्तरेणापि सुषुप्त्यादौ तदर्शनात्' । किञ्च इच्छा वाक्प्रवृत्तिहेतुर्न 'तत्प्रकर्षाप्रकर्षानुविधानाभावाद् बुद्ध्यादिवत् । न हि यथा बुद्धेः शक्तेश्च प्रकर्षे वाण्याः प्रकर्षोऽपकर्षे वाऽपकर्षः प्रतीयते तथा दोषजातेः ( इच्छायाः) श्रपि तत्प्रकर्षे वाचोऽपकर्षात् तदपकर्षे एव तत्प्रकर्षात्,
धा
भ
16.
ब
선의
बा
र्या
भव