________________
२. प्रत्यक्ष-प्रकाश:
त्वात् । तदुक्तं स्वामिभिरेव
स त्वमेवासि निर्दोषो युक्ति-शास्त्राविरोधिवाक् ।
अविरोधो 'यदिष्टं ते प्रसिद्धेन न 'बाध्यते ।। स्थानम् (योगसू० १-३) स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इत्यभिमतम्, तत्प्रमाणेन बाध्यते ; चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वप्रसाधनात् । न हि अनन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । अथ सर्वज्ञत्वादि प्रधानस्य स्वरूपम्, नात्मन इति चेन्न ; तस्याचेतनत्वान्न सर्वज्ञत्वादि तत्स्वरूपम्, आकाशवत् । ज्ञानादयश्च नाचेतनधर्माः,स्वसंवेदनस्वरूपत्वादनुभववदिति न चैतन्यमात्रेऽवस्थानं मोक्षः, अपि त्वनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीते: । एतेन बुद्धयादिगुणोच्छेदो मोक्ष इति वैशेषिकाः, अनन्तसुखमेव मुक्तस्य न ज्ञानादिकमित्यानन्दैकस्वभावाभिव्यक्तिर्मोक्ष इति वेदान्तिनः, निरास्रवचित्तसन्तत्युत्पादो मोक्ष इति बौद्धाः, तेषां सर्वेषामपि मोक्षतत्त्वं प्रमाणेन बाधितं ज्ञेयम् ; अनन्तज्ञानादिस्वरूपोपलब्धेरेव मोक्षत्वसिद्धेः । एवमेव कपिलादिभिर्भाषितं मोक्षकारणतत्त्वं संसारतत्त्वं संसारकारणतत्त्वं च न्यायागमविरुद्ध बोद्धव्यम् । इत्यष्टसहस्रयाः संक्षेपो विस्तरतस्तु तत्रैव दृष्टव्यः ।
१ प्रकरणसार: स्वोक्तमेव समन्तभद्राचार्यस्य कथनेन सह सङ्गमयति तदुक्तमिति । २ समन्तभद्राचार्यैः । ३ प्रमाणबलात् सामान्यतो यः सर्वज्ञो वीतरागश्च सिद्धः स त्वमेवाहन्, युक्तिशास्त्राविरोधिवाक्त्वात्, यो यत्र युक्तिशास्त्राविरोधिवाक् स तत्र निर्दोषो दृष्टो, यथा क्वचिद् व्याध्युपशमे भिषग्वरः । युक्तिशास्त्राविरोधिवाक् च भगवान् मुक्तिसंसारतत्कारणेषु, तस्मान्निर्दोष इति' अष्टस०पृ० ६२ । अविरोधश्च, यस्मादिष्टं मोक्षादिक तत्त्वं ते प्रसिद्धेन प्रमाणेन न बाध्यते । तथा हि—'यत्र यस्याभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र युक्तिशास्त्राविरोधिवाक् यथा रोगस्वास्थ्यतत्कारणतत्त्वे भिषग्वरः, न बाध्यते च भगवतोऽभिमतं मोक्षसंसारतत्कारण