________________
न्याय-दीपिका २६. 'एवमपि सर्वज्ञत्वमर्हत एवेति कथम् ? कपिलादीनामपि सम्भाव्यमानत्वादिति चेत् ; उच्यते-कपिलादयो न सर्वज्ञा: सदोषत्वात् । सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात्। तच्च 'तदभिमतमुक्तयादितत्त्वस्य सर्वथैकान्तस्य च प्रमाणबाधित
सदुपलम्भकप्रमाणपञ्चकाविषयत्वात्, कूर्मरोमादिवत्' इत्यादिरूपेण, तस्य मिथ्यानुमानत्वात्, मोक्षस्यानुमानागमाभ्यामस्तित्वव्यस्थापनात् । तद्यथा'क्वचिदात्मनि दोषावरणयोनिश्शेषा हानिरस्ति, अतिशायनात् क्वचित् कनकपाषाणादौ किट्टिमादिमलक्षयवत्' इत्यनुमानात्सकलकर्मक्षयस्वभावस्य मोक्षस्थ प्रसिद्धेः । 'बन्धहेत्वभाव-निर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः' इत्यागमाच्च तत्सिद्धेः । तथा मोक्षकारणतत्त्वमपि न प्रमाणेन वाध्यते, प्रत्यक्षतोऽकारणकमोक्षाप्रतीतेस्तेन तद्बाधनायोगात् । नाऽप्यनुमानेन, तस्य मोक्षकारणस्यैव प्रसाधकत्वात् । सकारणको मोक्षः प्रतिनियतकालादित्वात् पटादिवदिति । तस्याकारणकत्वे सर्वदा सर्वत्र तत्सद्भावप्रसङ्गः स्यात्, परापेक्षारहितत्वात् । अागमेनापि मोक्षकारणतत्त्वं न बाध्यते, प्रत्युत तस्य तत्साधकत्वात् । 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वार्थसू० १-१) इति वचनात् । एवं संसारतत्त्वं संसारकारणतत्त्वमनेकान्तात्मकवस्तुतत्त्वं च प्रमाणेनाबाध्यमानं बोद्धव्यमिति संक्षेपः । विस्तरतस्त्वष्टसहस्रयां (देवागमालङ्कारे) विद्यानन्दस्वामिभिनिरूपितम्
१ निर्दोषत्वेन हेतुना अर्हतः सर्वज्ञत्वसिद्धावपि । २ न्यायोऽनुमानम्, आगमः शास्त्रम्, ताभ्यां विरुद्धभाषिणो विपरीतवादिनः, तेषां भावस्तत्त्वं तस्मात् । 'ये न्यायागमविरुद्धभाषिणस्ते न निर्दोषाः, यथा दुवैद्यादयः, तथा चान्ये कपिलादयः' अष्टस० पृ० ६६ । ३ न्यायागमविरुद्धभाषित्वं च । ४ कपिलाद्यभिमतमुक्तिसंसारतत्कारणतत्त्वस्य । ५ नित्यायेकान्तस्य । ६ प्रमाणेन बाध्यत्वात्, तद्यथा-कपिलस्य तावत् 'तदा दृष्टुः स्वरूपेऽव