________________
२. प्रत्यक्ष-प्रकाशः
४५
२५. आवरणरागादयो दोषास्तेभ्यो निष्क्रान्तत्वं हि निर्दोषत्वम् । तत्खलु सर्वज्ञत्वमन्तरेण1 नोपपद्यते, किञ्चिज्ञस्यावरणादिदोषरहितत्वविरोधात् । ततो निर्दोषत्वमर्हति विद्यमानं सार्वश्यं साधयत्येव । निर्दोषत्वं पुनरर्हत्परमेष्ठिनि युक्ति-शास्त्राविरोधिवाक्त्वात्सिद्धयति । युक्ति-शास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्ति-संसारतत्कारण[तत्त्वस्यानेकधर्मात्मकचेतनाचेतनतत्त्वस्य च3 प्रमाणाबाधितत्वात्सुव्यवस्थितमेव ।
लिङ्गकम्, तस्य वक्रत्वेनाशु बोधजनकत्वाभावात् 'ऋजुमार्गेण सिद्धयन्तं को हि वक्रेण साधयेत्' (वैशे० सूत्रोप० २-१-१) इति वचनात् । किञ्च, व्यतिरेकिणि लिङ्गिनि बहूनि दूषणानि सम्भवन्ति । तथा हि
'साध्याप्रसिद्धिवैषम्यं व्यर्थतोपनयस्य च । अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम् ॥'
-वैशे० सूत्रोप० २-१-१ इति । ततो न तल्लिङ्गकमनुमानं युक्तमिति चेत् ; न; व्याप्तिमद्वयतिरेकिणोऽपि लिङ्गस्यान्वयिवदाशुबोधजनकत्वात् । व्याप्तिशून्यस्य तूभयस्याऽप्यगमकत्वात् । अत एवान्ताप्त्यैव सर्वत्र साध्यसिद्धेरभ्युपगमात्स्याद्वादिभिः। यदुक्तम् –'बहिर्व्याप्तिमन्तरेणान्तयाप्त्या सिद्धम् । यत इयमेवान्यत्रापि प्रधाना' प्राप्तमी० ७० ६ । सा च प्रकृते केवलव्यतिरेकिलिंगकानुमानेऽपि विद्यत एव । ततो नोक्तदोषः ।
१ निर्दोषत्वम् । २ अर्हदभिमतस्य । ३ प्रमाणेन बाधितुमशक्यत्वात् । तथा हि-तत्र तावद्भगवतोऽभिमतं मोक्षतत्त्वं न प्रत्यक्षेण बाध्यते, तस्य तदविषयत्वेन तद्बाधकत्वायोगात् । नाऽप्यनुमानेन 'नास्ति कस्यचिन्मोक्षः,
1 ा म मु 'सर्वज्ञमन्तरेण' पाठः । 2 आम मु प्रतिषु 'चेतनाचेतनात्मक' पाठः । 3 आ म प मु प्रतिषु 'च' पाठो नास्ति ।