________________
४४
न्याय-दीपिका अस्मिश्चार्थे सर्वेषां सर्वज्ञवादिनां न विवादः। यद् बाह्या अप्याहः "अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात् ।” [ ] इति ।
[सामान्यतः प्रसिद्धस्य सार्वश्यस्यार्हति प्रसाधनम् ]
२४. नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतीन्द्रियप्रत्यक्षज्ञानम्, तच्चाहत इति कथम् ? कस्यचिदिति सर्वनाम्नः सामान्यज्ञापकत्वादिति चेत् ; सत्यम् ; "प्रकृतानुमानात्सामान्यत: सर्वज्ञत्वसिद्धिः । अर्हत एतदिति। पुनरनुमानान्तरात् । तथा हिअर्हन् सर्वज्ञो भवितुमर्हति, निर्दोषत्वात्, यस्तु न सर्वज्ञो नासौ निर्दोषः, यथा रथ्यापुरुष इति केवलव्यतिरेकिलिङ्गकमनुमानम्।
१ विषये, अनुमेयत्वादिहेतुना सूक्ष्मादीनां कस्यचित्प्रत्यक्षत्वसाधने इति यावत् । २ जैनेतरा नैयायिकादयः । ३ यथा हि-स्वर्गादयः कस्यचित्प्रत्यक्षाः...... वस्तुत्वादागमविषयत्वात्, यद्वस्तु यच्च कथ्यते तत्कस्यचित्प्रत्यक्षं भवति,यथा घटादि'-न्यायवा० १-१-७, 'धर्मः कस्यचित्प्रत्यक्ष: प्रमेथत्वात् वासोवदिति, यस्य प्रत्यक्षः स योगी'-प्रमाणसं० पृ० ६ । ४ अदृष्टशब्देन पुण्यपापद्वयमुच्यते, अदृष्टमादिर्येषां ते अदृष्टादयः पुण्यपापादयोऽतीन्द्रियार्थाः । ५ 'सूक्ष्मान्तरितदरार्थाः कस्यचित्प्रत्यक्षा अनुमेयत्वात' इत्यस्मादनुमानात् । ६ सर्वज्ञत्वम् । ७ वक्ष्यमाणादन्यस्मादनुमानात् । ८ अनुमानान्तरमेव प्रदर्शयति तथा हीति । ६ व्यतिरेकव्याप्तिकाल्लिङ्गात् यदनुमानं क्रियते तद्वय तिरेकिलिङ्गकानुमानमुच्यते । साध्याभावे साधनाभावप्रदर्शनं व्यतिरेकव्याप्तिः । तथा च प्रकृतेऽनुमाने सर्वज्ञत्वरूपसाध्याभावे निर्दोषत्वरूपसाधनाभावः प्रदर्शितः । तत इदं व्यतिरेकिलिङ्गकानुमानम् । नन्वाशुबोधजनकमन्वयिलिङ्गकमेवानुमानं वाच्यम्, न केवलव्यतिरेकि
1 ‘एव तदिति' इति द प्रतिपाठः ।