________________
२. प्रत्यक्ष-प्रकाशः
त्वादिति । तस्मात्सिद्धं तदशेषविषयं ज्ञानमनैन्द्रियकमेव' इति।।
विषयत्वात् । किञ्च, इन्द्रियाणि सकृत्सर्वार्थसाक्षात्करणे बाधकान्येव आवरणनिबन्धनत्वात् । तदुक्तम्-'भावेन्द्रियाणामावरणनिबन्धनत्वात् । कात्य॑तो ज्ञानावरणसंक्षये हि भगवानतीन्द्रियप्रत्यक्षभाक् सिद्धः । न च सकलावरणसंक्षये भावेन्द्रियाणामावरणनिबन्धनानां सम्भवः, कारणाभावे कार्यानुपपत्तेः' अष्टस० पृ० ४५ । श्रीमाणिक्यनन्द्यप्याह-'सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात्'परीक्षा०२-१३ । अकलङ्कदेवैरप्युक्तम्
कथञ्चित् स्वप्रदेशेषु स्यात्कर्मपटलाच्छता । संसारिणां तु जीवानां यत्र ते चक्षुरादयः ॥ साक्षात्कर्तु विरोधः कः सर्वथाऽऽवरणात्यये ? । सत्यमर्थं तथा सर्व यथाऽभूद्वा भविष्यति ॥'
न्यायवि० ३६१, ३६२ । अथ 'न कश्चिद्भवभृदतीन्द्रियप्रत्यक्षभागुपलब्धो यतो भगवांस्तथा सम्भाव्यते; इत्यपि न शङ्का श्रेयसी; तस्य भवभृतां प्रभुत्वात् । न हि भवभृत्साम्ये दृष्टो धर्मः सकलभवभृत्प्रभौ सम्भावयितुं शक्यः, तस्य संसारिजनप्रकृतिमभ्यतीतत्वात्' (अष्टस• पृ० ४५) । कथं संसारिजनप्रकृतिमभ्यतीतोऽसौ ? इत्यत आह
मानुषीं प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ परमासि देवता श्रेयसे जिनवृष प्रसीद नः ॥
स्वयंभूस्तोत्र का० ७५ । ततस्तदशेषविषयं ज्ञानमतीन्द्रियमेव, अशेषविषयत्वान्यथानुपपत्तेरिति ध्येयम् । प्रत्यक्षं विशदज्ञानात्मक 'प्रत्यक्षत्वात्' इति वत् 'विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतां दोषासम्भवात्' (प्रमाणप० पृ० ६७) । १ इन्द्रियेभ्यो निष्क्रान्तम्-अतीन्द्रियमित्यर्थः ।
1 म मु 'अतीन्द्रियकमेव' इति पाठः ।