________________
न्याय-दीपिका
स्वभावकालदेश विप्रकृप्टाः पदार्था मित्वेन विवक्षिताः। तेषां कस्यचित्प्रत्यक्षत्वं साध्यम् । इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वम्, विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः । अनुमेयत्वादिति हेतुः । अग्न्यादिर्दष्टान्तः । अमन्यादावनुमेयत्वं कस्यचित्प्रत्यक्षत्वेन सहोपलब्ध परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव । न चाण्वादावनुमेयत्वमसिद्धम्।, सर्वेषामप्यनुमेयमात्रे विवादाभावात् ।
२२. 'अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्वसिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानम् । तत्पुनरतीन्द्रियमिति कथम् ? इत्थम्यदि तज्ज्ञानमैन्द्रियिक स्यात् अशेषविषयं न स्यात्, इन्द्रियाणां स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः । सूक्ष्मादीनां च तदयोग्य
१ अत्रानुमाने । २ ज्ञानधर्मस्य प्रतिभासस्य, अयमाशयः— 'सूक्ष्मादयाः कस्यचित्प्रत्यक्षाः' इत्यत्र सूक्ष्मादीनां यत्प्रत्यक्षत्वमुक्तं तद्धि प्रत्यक्षज्ञानवृत्तिर्धर्मो न तु सूक्ष्मादिपदार्थवृत्तिस्तत्कथं सूक्ष्मादीनां प्रत्यक्षत्वप्रतिपादनं श्रीस्वामिसमन्तभद्राचार्याणां सङ्गतम् ? अस्येदं समाधानम्-प्रत्यक्षत्वमत्र प्रत्यक्षज्ञानविषयत्वं विवक्षितम्, तथा च सूक्ष्मादीनां प्रत्यक्षज्ञानविषयत्वेनोपचारतस्तेषां प्रत्यक्षत्वमुक्तं 'घटः प्रतिभासते, पट: प्रतिभासते, घटज्ञानम्, पटज्ञानम्' इति भवति हि व्यवहारो न च घटस्य प्रतिभास: पटस्य वा प्रतिभासः, तस्य ज्ञानधर्मत्वात् । एवं न घटस्य ज्ञानं पटस्य वा ज्ञानम्, तस्यात्मनिष्ठत्वेन घटपटादिनिष्ठत्वासम्भवात्, आत्मनो हि तद् गुणस्तथापि तथा व्यवहारो भवत्येव । एवं प्रकृतेऽपि बोध्यम् । ३ वादिप्रतिवादिनाम् । ४ अण्वादेरनुमानविषयतायाम् । ५ पुनरपि अतीन्द्रियप्रत्यक्षाभावमाशङ्कते अस्त्वेवमिति । ६ सर्वज्ञज्ञानम् । ७ इन्द्रियजम् । ८ इन्द्रियायोग्यविषयत्वात्, न हीन्द्रियाणि सकृत्सर्वार्थषु ज्ञानमुपजनयितुमलम्, सम्बद्धवर्तमानार्थ
1 म मु प्रत्योः 'प्रसिद्धं' पाठः ।