________________
२. प्रत्यक्ष-प्रकाशः
[प्रासङ्गिकी सर्वज्ञसिद्धिः] २१. 'ननु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते' सर्वज्ञोऽर्हन्निति, क्वचिदप्यप्रसिद्धस्य विषयविशेष व्यवस्थापयितुमशक्तेरिति चेत् ; न ; सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, अग्न्यादिवत्, इत्यनुमानात्सर्वज्ञत्वसिद्धेः । तदुक्तं "स्वामिभिमहाभाष्यस्यादावाप्तमीमांसाप्रस्तावे
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा। अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ।।
[का० ५] इति।। - २२. सूक्ष्माः स्वभावविप्रकृष्टाः परमाण्वादयः, अन्तरिताः कालविप्रकृष्टा रामादयः, दूरा2 देशविप्रकृष्टा मेर्वादयः । एते तथा चोक्तं समन्तभद्रस्वामिभिः— 'स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च......' प्राप्तमी० १०५ । सम्भवति च सूक्ष्मादीनां साक्षाद्रूपं ज्ञानम् । साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिच्छिनत्ति (केवलाख्येन प्रत्यक्षेण केवली), नान्यतः (नागमात्) इति' (अष्टश० का० १०५) इति वचनात् । अतोऽतीन्द्रियं प्रत्यक्षमस्तीति युज्यते ।
१ सर्वज्ञाभाववादी मीमांसकश्चावकिश्चात्र शङ्कते नन्विति । २ भवता जैनेन । ३ कपिलादीनां मध्ये कस्मिंश्चिदपि अप्रतीतस्य सर्वज्ञत्वस्य । ४ व्यक्तिविशेषे अर्हति । ५ समन्तभद्राचार्यैः । ६ देवागमाभिधाप्तमीमांसाप्रकरणे । ७ व्यवहिताः कालापेक्षयेत्यर्थः ।
1 द म मु प्रतिषु 'इति' पाठो नास्ति। 2 म मु प्रत्योः 'दूरार्था:' पाठः ।