________________
न्याय-दीपिका परावृत्तं परोक्षम्” [ ] इत्यपि प्रतिविहितम्, अवैशद्यस्यैव परोक्षलक्षणत्वात् ।
२०. स्यादेतत् अतीन्द्रियं प्रत्यक्षमस्तोत्यतिसाहसम्; "असम्भावितत्वात् । यद्यसम्भावितमपि कल्प्येत, गगनकुसुमादिकमपि कल्प्यं स्यात् ; न1 स्यात् ; गगनकुसुमादे2रप्रसिद्धत्वात्,
अतीन्द्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात् । तथा हि—केवलज्ञानं तावत्किञ्चिज्ञानां कपिलादीनामसम्भवदप्यर्हतः सम्भवत्येव । सर्वज्ञो हि स भगवान् ।
१ व्यावृत्तं रहितमति यावत् । 'अक्षेभ्यो हि परावृत्तं परोक्षम्'तत्त्वार्थश्लो०पृ० १८३ । २ निरस्तम् । ३ यदाहाऽकलङ्कदेवः—'इतरस्य (अविशदनिर्भासिनो ज्ञानस्य) परोक्षता'-लघी० स्वो० वि० का ३ । ४ अतीन्द्रियप्रत्यक्षाभावमाशङ्कते स्यादेतदिति । ५ लोके खलु इन्द्रियैरुत्पन्नमेव ज्ञानं प्रत्यक्षमुच्यते प्रसिद्धं च, नत्विन्द्रियनिरपेक्षम्, तदन्तरेण तदुत्पत्ते रसम्भवादिति भावः । ६ इन्द्रियनिरपेक्षस्यापि प्रत्यक्षज्ञानस्योत्पत्तेः सम्भवात् । न हि सूक्ष्मान्तरितद्रार्थविषयकं ज्ञानमिन्द्रियैः सम्भवति, तेषां सन्निहितदेशविषयकत्वात्सम्बद्धवर्तमानार्थग्राहकत्वाच्च, 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना' (मी० श्लो० सू० ४ श्लो० ८४) इति भावत्कवचनात् । न च तज्ज्ञानं प्रत्यक्षमेव नास्ति, चोदनाप्रभवत्वात् । 'चोदना हि भूतं भवन्तं भविष्यन्तं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलं पुरुषविशेषान्' (शाबरभा० १-१-२) इति वाच्यम्, तज्ज्ञानस्यावैशयेन परोक्षत्वात् । न हि शब्दप्रभवं ज्ञानं विशदं साक्षाद्रूपं च । प्रत्यक्षज्ञानं तु विशदं साक्षाद्रूपं च । अत एव तयोः साक्षात्वेनासाक्षात्वेन भेदः । 1 पा प्रतौ ‘इति चेन्न' इति पाठः । 2 म मु प्रत्योः ‘गगनकुसुमादि'पाठः ।