________________
२. प्रत्यक्ष-प्रकाशः
१६. अथवा' अक्ष्णोति व्याप्नोति जानातीत्यक्ष यात्मा, तत्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्नम्। ? तहि इन्द्रियजन्यमप्रत्यक्षं प्राप्तमिति चेत् ; हन्त विस्मरणशीलत्वं वत्सस्य । अवोचाम खल्वौपचारिक प्रत्यक्षत्वमक्षजज्ञानस्य । ततस्तस्याप्रत्यक्षत्त्वं कामं प्राप्नोतु, का नो हानिः । “एतेन “अक्षेभ्यः
निमित्तम् । ततश्च यत्किञ्चिदर्थस्य साक्षात्कारिज्ञानं तत्प्रत्यक्षमुच्यते । यदि चाक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि, यथा गच्छतीति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनकियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्ति निमित्तीकरोति तथा च गच्छति अगच्छति च गवि गोशब्दः सिद्धो भवति'-न्यायबिन्दुटी० पृ० ११ । तथा प्रकृतेऽपि अक्षजन्येऽनक्षजन्ये च ज्ञाने प्रत्यक्षशब्दः प्रवर्तते। अतो युक्तमेवावध्यादित्रयाणामिन्द्रियनिरपेक्षाणामपि प्रत्यक्षशब्दवाच्यत्वम्, स्पष्टत्वापरनामार्थसाक्षात्कारित्वस्य तत्र प्रवृत्ति निमित्तसद्भावादिति भावः ।
१ यद्ययमाग्रहः स्याद्यद्वयुत्पत्तिनिमित्तेनैव भाव्यमिति तदा तदप्याह अथवेति । यथोक्तं श्रीप्रभाचन्द्ररपि–'यदि वा, व्युत्पत्तिनिमित्तमप्यत्र विद्यत एव । तथा हि-अक्षशब्दोऽयमिन्द्रियवत् आत्मन्यपि वर्त्तते, अक्ष्णोति व्याप्नोति जानातीति अक्ष आत्मा इति व्युत्पत्तेः । तमेव क्षीणोपशान्तावरणं क्षीणावरणं वा प्रति नियतस्य ज्ञानस्य प्रत्यक्षशब्दातिशयता सुघटैव ।'न्यायकु० पृ० २६ । २ नायुक्तमिति भावः । ३ बालस्य, विस्मरणशीलः प्रायो बाल एव भवति, अत उक्तं वत्सस्येति । ४ इन्द्रियजन्यज्ञानस्य । ५ इन्द्रियजज्ञानस्य । ६ यथेष्टम् । ७ अस्माकम् —जैनानाम् । ८ 'अक्षमक्षं प्रतीत्य यदुत्पद्यते तत्प्रत्यक्षं' इति, 'अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम्' इति वा प्रत्यक्षलक्षणनिरसनेन ।
1 पा प्रतौ 'किमनुपपन्नम्' इति पाठो नास्ति ।