________________
न्याय-दीपिका प्रतीत्य 'यदुत्पद्यते तदेव प्रत्यक्षमुचितम्, नान्यत्'२ [ ] इति; तदसत्; आत्ममात्रसापेक्षाणामवधिमनःपर्ययकेवलानामिन्द्रियनिरपेक्षाणामपि प्रत्क्षत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजक नेन्द्रियजन्यत्वम् । अत एव हि मतिश्रुतावधिमन:पर्ययकेवलानां ज्ञानत्वेन प्रतिपन्नानां मध्ये "आद्ये परोक्षम्". [तत्त्वार्थसू० १-११] “प्रत्यक्षमन्यत्" [तत्त्वार्थसू० १-१२] इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां 'प्रत्यक्षत्ववाचोयुक्तिः।
१८. कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वम् ? इति चेत्; रूढित' इति ब्रूमः ।
१ यज्ज्ञानम् । २ नेन्द्रियनिरपेक्षम्, तथा च नावध्यादित्रयं प्रत्यक्षमिति शङ्कितुराशयः । ३ तदयुक्तम् । ४ प्रत्यक्षतायां निबन्धनम् । ५ यतो हि 'यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते, एवं सत्याऽऽप्तस्य प्रत्यक्षज्ञानं न स्यात् । न हि तस्येन्द्रियपूर्वोऽर्थाधिगमः । सर्वार्थ० १-१२ । ६ स्पष्टत्वस्य प्रत्यक्षत्वप्रयोजकत्वादेव, यत एव स्पष्टत्वं प्रत्यक्षत्वप्रयोजकं तत एव इत्यर्थः । ७ अभ्युपगतानामवगतानामिति यावत् । ८ प्रत्यक्षत्वप्रतिपादनं सङ्गतं सूत्रकाराणाम् । यदाह अकलङ्कदेवोऽपि 'आद्ये परोक्षमपरं प्रत्यक्षं प्राहुराज सम् ।'–न्यायवि० का० ४७४ । ६ अवधिमनःपर्ययकेवलानाम् । १० कथन योग्यता, व्यपदेश इति यावत् । ११ अक्षमक्षं प्रति यद्वर्त्तते तत्प्रत्यक्षमितीमं प्रत्यक्षशब्दस्य व्युत्पत्त्यर्थमनाश्रित्यार्थसाक्षात्कारित्वरूपप्रवृत्तिनिमित्तसद्भावात् । 'अक्षाश्रितत्व च व्युत्पत्तिनिमित्तं शब्दस्य (प्रत्यक्षशब्दस्य), न तु प्रवृत्ति निमित्तम् । अनेन त्वक्षाश्रितत्वेन एकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते तदेव च शब्दस्य (प्रत्यक्षशब्दस्य) प्रवृत्ति