________________
२. प्रत्यक्ष-प्रकाशः
३७
१६. 'नन्वस्तु केवलस्य पारमार्थिकत्वम् अवधि-मनःपर्यययोस्तु न युक्तम्, विकलत्वादिति चेत् ;न'; साकल्य-वैकल्ययोरत्र विषयोपाधिकत्वात् । तथा हि-सर्वद्रव्यपर्यायविषयमिति केवलं सकलम् । अवधि-मनःपर्ययौ तु कतिपयविषयत्वाद्विकलौ । नैतावता तयोः पारमार्थिकत्वच्युतिः । केवलवत्तयोरपि वैशा स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव । o [अवध्यादित्रयस्यातीन्द्रियप्रत्यक्षत्वप्रतिपादनम्]
१७. कश्चिदाह-"असं नाम चक्षुरादिकमिन्द्रियम्, तत्
क्षयोपशमातिशयवशात्स्वविषये परिस्फुटत्वादिति ब्रूमः।'-अष्टस० पृ. ५० ।
१ अवधिमनःपर्ययोः पारमार्थिकत्वाभावमाशङ्कते नन्विति । २ समाधत्ते नेति । अयं भावः-अत्र हि केवलस्य यत्सकलप्रत्यक्षत्वमवधिमनःपर्ययोश्च विकलप्रत्यक्षत्वमुक्तं तद्विषयकृतम् । सकलरूप्यरूपिपदार्थविषयत्वेन केवलं सकलप्रत्क्षमुच्यते, रूपिमात्रविषयत्वेन चावघिमनःपर्ययौ विकलप्रत्यक्षौ कथ्यते । ततो न तयोः पारमार्थिकत्वहानिः । पारमार्थिकत्वप्रयोजकं हि स्वविषये साकल्येन वैशद्यम्, तच्च केवलवत्तयोरपि विद्यत एवेति । ३ विषय उपाधिनिमित्तं ययोस्तौ विषयोपाधिको विषयनिमित्तको तयोर्भावस्तत्त्वं तस्मात् विषयोपाधिकत्वात् विषयनिमित्तकत्वादित्यर्थः । ४ पारमाथिकत्वाभावः । ५ एवकारेणापारमार्थिकत्वव्यवच्छेदः, तेन नापारमाथिको इति फलति । ६ 'अक्षमक्षं प्रतीत्योत्पद्यते इति प्रत्यक्षम्, अक्षाणि इन्द्रियाणि'-प्रशस्त०भा० पृ. ६४ । 'अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम्'न्यायप्र० पृ. ७। ये खलु 'इन्द्रियव्यापारजनितं प्रत्यक्ष-अक्षमक्षं प्रति यद्वर्त्तते तत्प्रत्यक्षमित्यभ्युपगमात्' (सर्वार्थ ० १-१२) इति प्रत्यक्षलक्षणमामनन्ति तेषामियं शङ्का, ते च वैशेषिकादयः । ७ इन्द्रियमाश्रित्य ।