________________
न्याय-दीपिका
१४. सर्वद्रव्यपर्यायविषयं सकलम् । तच्च घातिसंघातनिरवशेषघातन 1समुन्मीलितं केवलज्ञानमेव । “सर्वद्रव्यपर्यायेष केवलस्य" [तत्त्वार्थसू० १-२६] इत्याज्ञापितत्वात् ।
१५. तदेवमवधि-मनःपर्यय-केवलज्ञानत्रयं सर्वतो वैशद्यात् पारमार्थिकप्रत्यक्षम् । सर्वतो वैशचं 'चात्ममात्रसापेक्षत्वात् ।
ऋजुकायकृतार्थश्चेति । ...... द्वितीयो विपुलमतिः षोढा भिद्यते । कुतः? ऋजुवक्रमनोवाक्कायविषयभेदात् । ऋजुविकल्पाः पूर्वोक्ताः, वक्रविकल्पाश्च तद्विपरीता योज्याः'-तत्त्वार्थवा० १,२३,६-८ । एवमेव श्लोकवात्तिके (१-२३) मनःपर्ययभेदाः प्रोक्ताः ।
१ पारमार्थिकप्रत्यक्षमिति सम्बन्धः । २ सकलप्रत्यक्षम् । ३ घातिनां ज्ञानावरण-दर्शनावरण-मोहनीयान्तरायकर्मणां संघात: समूहस्तस्य निरवशेषेण सामस्त्येन घातनात् क्षयात्समुन्मीलितं जातमित्यर्थः । ४ 'सर्वग्रहणं निरवशेषप्रतिपत्त्यर्थम् । ये लोकालोकभिन्नास्त्रिकालविषया द्रव्यपर्याया अनन्ताः, तेषु निरवशेषेषु केवलज्ञानविषयनिबन्ध इति प्रतिपत्त्यर्थं सर्वग्रहणम् । यावाँल्लोकालोकस्वभावोऽनन्तस्तावन्तोऽनन्तानन्ता यद्यपि स्युस्तानपि ज्ञातुमस्य सामर्थ्यमस्तीत्यपरिमितमाहात्म्यं केवलज्ञानं वेदितव्यम् ।' तत्त्वार्थवा० १,२६,६ । ५ विषयनिबन्धः (सम्बन्धः) इति शेषः। ६ आत्मानमेवापेक्ष्यैतानि त्रीणि ज्ञानान्युत्पद्यन्ते, नेन्द्रियानिन्द्रियापेक्षा अत्रास्ति । उक्तं च-........ अत एवाक्षानपेक्षाऽञ्जनादिसंस्कृतचक्षुषो यथाऽऽलोकानपेक्षा ।'–अष्टश० का० ३; 'न हि सर्वार्थः सकृदक्षसम्बन्धः सम्भवति साक्षात्परम्परया वा। ननु चावधि-मनःपर्ययज्ञानिनोर्देशतो विरतव्यामोहयोरसर्वदर्शनयो: कथमक्षानपेक्षा संलक्षणीया ? तदावरण
___ 1 म मु प्रत्योः 'घातनात्' इति पाठः । 2 'इत्यादिज्ञापितत्वात्' इति २४ - द प प्रतिपाठः । 3 'पारमार्थिकं प्रत्यक्षं' इति म मु प्रतिपाठः ।