________________
२. प्रत्यक्ष-प्रकाशः
३५
शमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानम् । मतिज्ञानस्येवावधिमनःपर्यययोरवान्तरभेदाः तत्त्वार्थराजवात्तिक-श्लोकवातिकभाष्याभ्यामवगन्तव्याः । सप्तमनरकपर्यन्तं पश्यन्ति । उपरि स्तोकं पश्यन्ति, निजविमानध्वजदण्डपर्यन्तमित्यर्थः ।'-तत्त्वार्थवृ० श्रु० १-६ । 'अवाग्धानात् (पुद्गलपरिज्ञानात) अवच्छिन्नविषयत्वाद्वा (रूपिविषयत्वाद्वा) अवधिः ।' सर्वार्थ० १-६ ।
१ परिकीयमनोगतोऽर्थो मन इत्युच्यते, साहचर्यात्तस्य पर्ययणं परिगमनं मनःपर्ययः ।' सर्वार्थ० १-६ । २ प्रभेदाः । ३ तदित्थम्—'अनुगाम्यननुगामिवर्द्धमानहीयमानावस्थिताऽनवस्थितभेदात् षड्विधोऽवधिःXX पुनरपरेऽवधेस्त्रयो भेदाः-देशावधिः, परमावधिः, सर्वावधिश्चेति । तत्र देशावधिस्त्रेधा-जघन्यः, उत्कृष्टः, अजघन्योत्कृष्टश्चेति । तथा परमावधिरपि त्रिधा (जघन्यः, उत्कृष्टः, अजघन्योत्कृष्टश्च)। सर्वावधिरविकल्पत्वादेक एव । उत्सेधांगुलासंख्येयभागक्षेत्रो देशावधिर्जघन्यः । उत्कृष्टः कृत्स्नलोकः । तयोरन्तरालेऽसंख्येयविकल्प अजघन्योत्कृष्ट: । परमावधिर्जघन्य एकप्रदेशाधिकलोकक्षेत्रः । उत्कृष्टोऽसंख्येयलोकक्षेत्रः, अजघन्योत्कृष्टो मध्यमक्षेत्रः । उत्कृष्टपरमावधिक्षेत्राद् बहिरसंख्यातक्षेत्रः सर्वावधिः । वर्द्धमानः, हीयमानः, अवस्थितः, अनवस्थितः, अनुगामी, अननुगामी, अप्रतिपाती, प्रतिपातीत्येतेऽष्टौ भेदा देशावधेर्भवन्ति । हीयमान-प्रतिपातिभेदवा इतरे षड्भेदा भवन्ति परमावधेः । अवस्थितोऽनुगाम्यननुगाम्यप्रतिपातीत्येते चत्वारो भेदाः सर्वावधेः ।'-तत्त्वार्थवा० १,२२,४ । 'अनुगाम्यननुगामी वर्द्धमानो हीयमानोऽवस्थितोऽनवस्थित इति षड्विकल्पोऽवधिः संप्रतिपाताप्रतिपातयोरत्रैवान्तर्भावात् । देशावधिः परमावधिः सर्वावधिरिति च । परमागमप्रसिद्धानां पूर्वोक्तयुक्त्या सम्भावितानामत्रोपसंग्रहात् ।'-तत्त्वार्थन श्लो० भा० १-२२-१० । ‘स मनःपर्ययो द्वेधा । कुतः ? सूत्रोक्तविकल्पात् । ऋजुमतिविपुलमतिरिति XXअाद्य ऋजुमतिमनःपर्ययस्त्रेधा । कुतः ? ऋजुमनोवाक्कायविषयभेदात् । ऋजुमनस्कृतार्थज्ञः, ऋजुवाक्कृतार्थज्ञः,