________________
३४
न्याय-दीपिका
"इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम्” (२-५) इति ।। इदं चामुख्यप्रत्यक्षम्, उपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव, मतिज्ञानत्वात् । कुतो नु खल्वेतन्मतिज्ञानं परोक्षमिति ? उच्यते"प्राद्ये परोक्षम्" [तत्त्वार्थसू० १-११] इति सूत्रणात्।। आये मति-श्रुतज्ञाने परोक्षमिति हि सूत्रार्थः । उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण ।
[पारमार्थिकप्रत्यक्षं लक्षयित्वा तद्भदानां प्ररूपणम्] $ १३. सर्वतो विशदं पारमार्थिकप्रत्यक्षम् । यज्ज्ञानं साकल्येन स्पष्टं तत्पारमार्थिकप्रत्यक्षम्, मुख्यप्रत्यक्षमिति यावत् । "तद् द्विविधम्-विकलं सकलं च । तत्र कतिपयविषयं विकलम् । "तदपि द्विविधम् अवधिज्ञानं मनःपर्ययज्ञानं च2। तत्रावधिज्ञानावरणक्षयोपशमाद्वीर्यान्तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानम् । मनःपर्ययज्ञानावरण-वीर्यान्तरायक्षयोप
१ ननु यदि प्रकृतं ज्ञानममुख्यतः प्रत्यक्षं तर्हि मुख्यतः किं स्यादित्यत आह वस्तुतस्त्विति । २ इन्द्रियानिन्द्रयजन्यज्ञानस्योपचारत: प्रत्यक्षत्वकथने निमित्तम् । ३ सामस्त्येन । ४ पारमार्थिकप्रत्यक्षम्। ५ विकलमपि प्रत्यक्षम्। ६ अवधिः सीमा मर्यादा इति यावत् । स विषयो यस्य ज्ञानस्य तदवधि. ज्ञानम् । अत एवेदं ज्ञानं सीमाज्ञानमपि कथ्यते । 'अवायन्ति वजन्तीत्यवायाः पुद्गलाः, तान् दधाति जानातीत्यवधिः'XX 'अवधानम् अवधिः कोऽर्थः ? अधस्ताबहुतरविषयग्रहणादवधिरुच्यते, देवा खल्ववधिज्ञानेन
1 सूत्रभणनात्' इति म प्रतिपाठः। 2 'चेति' पाठो म ा मु प्रतिषु ।