________________
२. प्रत्यक्ष - प्रकाशः
३३
ज्ञानं धारणा' । यद्वशादुत्तरकालेऽपि स । इत्येवं स्मरणं जायते ।
१२. ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसङ्ग इति चेत्; न; विषयभेदेनागृहीतग्राहकत्वात् । तथा हि-योऽवग्रहस्य विषयो नासावोहायाः, यः पुनरीहाया नायमवायस्य, यश्चावायस्य नैष2 धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत् । तदेतदवग्रहादिचतुष्टयमपि यदेन्द्रियेण जन्यते तदेन्द्रियप्रत्यक्षमित्युच्यते, यदा पुनरनिन्द्रियेण तदाऽनिन्द्रियप्रत्यक्षं गीयते । इन्द्रियाणि स्पर्शन- रसन-प्राण- चक्षुः श्रोत्राणि पञ्च, अनिन्द्रियं तु मनः । तद्वयनिमित्तकमिदं 'लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिक प्रत्यक्षमुच्यते । तदुक्तं परीक्षामुखे:
१ 'स्मृतिहेतुर्धारणा, संस्कार इति यावत्' लघी ० स्वोपज्ञविवृ० का ० ६ । ननु धारणायाः कथं ज्ञानत्वम्, संस्काररूपत्वात् ? न च संस्कारस्य ज्ञानरूपतेति चेत्; तन्न ; उक्तमेव पूर्वम्- ' ईहा - धारणयोरपि ज्ञानात्मकत्वम्, तदुपयोगविशेषात्' इति । 'अस्य ह्यज्ञानरूपत्वे ज्ञानरूपस्मृतिजनकत्वं न स्यात्, न हि सत्ता सत्तान्तरमनुविशति' (प्रमाणमी० १ - १ - २९ ) । 'अवग्रहस्य ईहा अवायस्य च धारणा व्यापारविशेषः, न च चेतनोपादानो व्यापारविशेषः अचेतनो युक्तोऽतिप्रसङ्गात् ' ( न्यायकुमु० पृ० १७३ ) । २ अवग्रहादीनाम् । ३ विशुद्धबुद्धीनाम् । ४ अवग्रहादिचतुष्टयस्यापि इन्द्रियानिन्द्रियजन्यत्वेन द्विविधत्वं प्रदर्शयति तदेतदिति । ५ कथ्यते । ६ लोकस्य यः समीचीनो बाधारहितः प्रवृत्ति निवृत्तिरूपो व्यवहारस्तस्मिन् । ७ संव्यवहारप्रयोजनक सांव्यवहारिकम् — अपारमार्थिकमित्यर्थः ।
1 ' स एवेत्येवं' द प प्रतिपाठः । 2 'नैव' इति म प्रतिपाठः । 3 श्र मम प्रतिषु 'परीक्षामुखे' इति पाठो नास्ति ।