________________
न्याय-दीपिका
[ १-१५-६ ] इति । 'भाष्यं च–“संशयो हि निर्णयविरोधी नत्ववग्रह:२” [ १-१५-१० ] इति । अवग्रहग्रहोता
र्थसमुद्भूतसंशयनिराशाय यतनमीहा । तद्यथा-पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य" इति संशये सति दक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति । भाषादिविशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः, यथा दाक्षिणात्य एवायमिति । कालान्तराविस्मरणयोग्यतया तस्यैव विषयकः, अनिश्चयात्मकः, विषयान्तर व्यवच्छेदकः संशयः । अवग्रहस्तु तद्विपरीत:-एकार्थविषयकः, निश्चयात्मकः, विषयान्तरव्यवच्छेदकश्चेति।
१ तत्त्वार्थराजवात्तिकभाष्यम् । २ सति संशये पदार्थस्य निर्णयो न भवति, अवग्रहे तु भवत्येवेति भावः । ३ ननु कथमीहाया ज्ञानत्वम् ? यतो हीहाया इच्छारूपत्वाच्चेष्टात्मकत्वाद्वा; मैवम् ; ईहा जिज्ञासा, सा च विचाररूपा, विचारश्च ज्ञानम्, नातो कश्चिद्दोषः । तथा चोक्तम्'ईहा ऊहा तर्क: परीक्षा विचारणा जिज्ञासा इत्यनर्थान्तरम् ।' तत्त्वार्थाधि० भा० १-१५, 'ईहा-धारणयोरपि ज्ञानात्मकत्वमुन्नेयं तदुपयोगविशेषात् ।'—लघीय० स्वोपज्ञ वि० का० ६, 'ज्ञानेने (ज्ञानमी) हाभिलाषात्मा संस्कारात्मा न धारणा !। इति केचित्प्रभाषन्ते तच्च न व्यवतिष्टते । विशेषवेदनस्येह दृढस्येहात्वसूचनात् ॥XXअज्ञानात्मकतायां तु संस्कारस्येह (हि)तस्य वा । ज्ञानोपादानता न स्याद्रूपादेरिव सास्ति च ।"तत्त्वार्थश्लोकवा० १-१५-१६, २०, २२, 'ईहा च यद्यपि चेष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्षभेदत्वमस्या:'-प्रमाणमी० १-१-२७, 'ईहा-धारणयोर्ज्ञानोपादानत्वात् ज्ञानरूपतोन्नेया'-प्रमाणमी० १-१-३६ । ४ दक्षिणदेशीयः । ५ उत्तरदेशीयः । ६ अनुभवकालाद्भिन्नकालः कालान्तरमागामिसमय इत्यर्थः ।