________________
२. प्रत्यक्ष-प्रकाश:
॥ १-१ तथा २-४] सुलभः । संग्रहग्रन्थत्वात्तु नेह प्रतन्यते । एवं वन सौगताभिमतं निर्विकल्पं प्रत्यक्षम्, नापि यौगाभिमत इन्द्रियार्थसन्निकर्षः । किं तहि ? विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धम् । [प्रत्यक्षं द्विधा विभज्य सांव्यवहारिकस्य लक्षणपुरस्सरं भेदनिरूपणम्
११. तत्प्रत्यक्षं द्विविधम्1--सांव्यवहारिक पारमार्थिक चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षम्। यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः । तच्चतुविधम्-अवग्रहः, ईहा, अवायः, धारणा चेति । तत्रेन्द्रियार्थसमवधानसमनन्तरसमुत्थसत्तालोचनान्तरभावी सत्ताऽवान्तरजातिविशिष्ट वस्तुग्रही ज्ञान विशेषोऽवग्रहः—यथाऽयं पुरुष इति । नाऽयं संशयः, 'विषयान्तरव्युदासेन 'स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । “यद्राजवात्तिकम् अनेकार्थानिश्चिताऽपयुदासात्मकः संशयस्तद्विपरीतोऽवग्रहः”
१ सुबोधः । २ अत्र न्यायदीपिकायाम् । ३ विस्तार्यते । ४ प्रत्यक्षमिति सम्बन्धः । ५ सांव्यवहारिकप्रत्यक्षम् । ६ अवग्रहादिषु मध्ये । ७ इन्द्रियार्थयोः समवधानं सन्निपातः सम्बन्ध इति यावत्, तत्पश्चादुत्पन्नो यः सत्तालोचनरूप: सामान्यप्रतिभासस्तस्यानन्तरं जायमानः, अथ चावान्तरसत्ताविशिष्टवस्तुग्राहको यो ज्ञानविशेषः सोऽवग्रह इति भावः । ८ स्वविषयादन्यो विषयो विषयान्तरम्, तस्य व्युदासो व्यवच्छेदस्तेन स्वविषयातिरिक्तविषयव्यवच्छेदेन । ६ स्वविषयभूतपरमार्थंककोटिनिश्चायको ह्यवग्रहः । १० अवग्रहात्सर्वथा विपरीतः संशयः । ११ अवग्रह-संशययोर्भेदसाधकं तत्त्वार्थराजवात्तिकीथं लक्षणं प्रदर्शयति यदिति । १२ अयमर्थः-नानार्थ
1 'तत्कियत्प्रकारं, तद्विविधं' इति म प्रतिपाठः ।।