________________
न्याय-दीपिका प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षस्ततो न सन्निकर्षस्याव्याप्तिरिति चेत् ; न ; अस्यानुमानाभासत्वात् । तद्यथा
६. चक्षुरित्यत्र कः पक्षोऽभिप्रतः ? किं लौकिकं चक्षुरुतालौकिकम् ? अाद्ये हेतोः “कालात्यापदिष्टत्वम्, गोलकाख्यस्य1 लौकिक चक्षुषो विषयप्राप्ते: प्रत्यक्षबाधितत्वात् । द्वितीये' त्वाश्रयासिद्धिः, अलौकिकस्य चक्षुषोऽद्याऽप्यसिद्धेः । शाखासुधादीधिति समानकाल ग्रहणान्यथानुपपत्तेश्च3 चक्षुरप्राप्यकारीति निश्चीयते । तदेवं सन्निकर्षाभावेऽपि चक्षुषा रूपप्रतीति
यित' इति सन्निकर्षोऽव्यापक त्वात्प्रत्यक्षस्य स्वरूपं न भवतीति स्थितम् ।
१०. अस्य च प्रमेयस्य प्रपञ्च:११ प्रमेयकमलमार्तण्डे
शकं तन्न बहिरिन्द्रिम्, यथा मनः, वहिरिन्द्रयं चेदं चक्षुः, तस्मात्प्राप्तार्थप्रकाशकमिति भावः ।
१ सदोषानुमानत्वमनुमानाभासत्वम् । २ स्वीकृतो भवता योगेन । ३ प्रथमे पक्षे । ४ बाधितपक्षानन्तरं प्रयुक्तो हि हेतुः कालात्यापदिष्ट उच्यते । ५ उत्तरविकल्पे—अलौकिकं चक्षुरित्यभ्युपगमे। ६ किरणरूपस्य । ७ सुधादीधितिः-चन्द्रमाः । ८ शाखाचन्द्रमसोस्तुल्यकालग्रहणं दृष्टं ततो ज्ञायते चक्षुरप्राप्यकारीति । प्राप्यकारित्वे तु क्रमश एव तयोर्ग्रहणं स्यात् न युगपत्, परं युगपत्तयोर्ग्रहणं सर्वजनसाक्षिकमिति भावः । ६ अव्याप्तिदोपदुष्टत्वात् । १० एतस्य सन्निकर्षाप्रामाण्यविचारस्य । ११ विस्तरः ।
1 'क्षस्य' इति म मु प्रत्योः पाठः । 2 ‘ग्रहणाद्यन्यथानु' इति प्राम प मु प्रतिपाठः । 3 आ म मु प्रतिष 'च' पाठो नास्ति ।