________________
२. प्रत्यक्ष-प्रकाशः सामान्यस्य परमार्थत्वमेव, अबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य ।
[नैयायिकाभिमतस्य सन्निकर्षस्य प्रत्यक्षत्वनिरासः] ६७. 'सन्निकर्षस्य च योगाभ्युपगतस्याचेतनत्वात् कुतः प्रमितिकरणत्वम्, कुतस्तरां प्रमाणत्वम्, कुतस्तमा प्रत्यक्षत्वम् ?
८.. 'किञ्च, रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकम्, अप्राप्यकारित्वात्तस्य । ततः सन्निकर्षाभावेऽपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य। न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धम्, प्रत्यक्षतस्तथैव प्रतीतेः । ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्यामः परमाणुवत् । यथा प्रत्यक्षासिद्धोऽपि, परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते तथा 'चक्षुः प्राप्तार्थप्रकाशकं बहिरिन्द्रियत्वात् त्वगिन्द्रियवत्' इत्यनुमानात् तन्निरस्तम् ; 'सामान्यलक्षण-स्वलक्षणयोहिं भेदाभावात्'–अष्टस० पृ० १२१
१ इन्द्रियायार्थयोः सम्बन्धः सन्निकर्षः । २ अज्ञाननिवृत्तिरूपप्रमा प्रति करणत्वं प्रमितिकरणत्वम्। तच्च सन्निकर्षस्य न सम्भवति, जडत्वात् । प्रमितिकरणत्वासम्भवे च न तस्य प्रमाणत्वम्, प्रमाकरणस्यैव प्रमाणत्वाभ्युपगमात् । तदभावे च न प्रत्यक्षत्वमिति भावः । ३ दोषान्तरमाह किञ्चेति । चक्षुर्हि असम्बद्धमेव रूपज्ञानस्य जनकं भवति, अप्राप्तार्थप्रकाशकत्वात् । न हि चक्षुः पदार्थ प्राप्य प्रकाशयति, अपि तु दूरादेव । ४ अप्राप्यकारित्वस्यैव । ५ प्रत्यक्षेणापरिच्छेद्याम् । ६ 'परमाणुरस्ति द्वचणुकादिकार्योत्पत्त्यन्यथानुपपत्तेः' इत्यनुमानेन । ७ वहिःपदं मनोव्यवच्छेदार्थम्, मनो हि न बहिरिन्द्रियं तस्यान्तःकरणत्वात् । तच्चाप्राप्यकारीति । अत्र व्याप्ति:-यद्वहिरिन्द्रियं तत्प्राप्तार्थप्रकाशकम्, यथा स्पर्शनेन्द्रियम् । यन्न प्राप्तार्थप्रका