________________
न्याय-दीपिका
६. 'एतेन तदाकारत्वात्तत्प्रकाशकत्वम्' इत्यपि प्रत्युक्तम्। अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकार वत्तज्जन्यत्वमप्रयोजक प्रामाण्ये । सविकल्पकविषयभूतस्य
प्रतिनियतार्थव्यवस्थायामङ्गम् नार्थोत्पत्त्यादि ।'–प्रमेयक० २-१०, 'योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरण-वीर्यान्तरायक्षयोपशमविशेष एव'-प्रमाणपरीक्षा पृ० ६७ ।
१ अर्थजन्यताया निराकरणेन, योग्यतायाश्च प्रतिनियतार्थव्यवस्थापकत्वसमर्थनेन । २ निरस्तम् । ३ इत्थं च तदाकारत्वं तज्जन्यत्वं चोभयमपि प्रामाण्ये न प्रयोजकमिति बोध्यम् । ४ यच्चोक्तम्-सविकल्पकस्यापरमार्थभूतसामान्यविषयत्वमिति; तन्न युक्तम् ; सविकल्पकस्य विषयभूतसामान्यस्य प्रमाणाबाधितत्वात्परमार्थत्वमेव । यद्धि न केनापि प्रमाणेन बाध्यते तत्परमार्थसत्, यथा भवदभिमतं स्वलक्षणम्, प्रमाणाबाधितं च सामान्यम्, तस्मात्परमार्थसत् । किञ्च, 'यथैव हि विशेषः (स्वलक्षणरूपः) स्वेनासाधरणेन रूपेण सामान्यासम्भविना विसदृशपरिणामात्मना लक्ष्यते तथा सामान्यमपि स्वेनासाधारणेन रूपेण सदृशपरिणामात्मना विशेषासम्भविना लक्ष्यते इति कथं स्वलक्षणत्वेन विशेषाद् भिद्यते ? यथा च विशेषः स्वामर्थक्रियां कुर्वन् व्यावृत्तिज्ञानलक्षणार्थक्रियाकारी तथा सामान्यमपि स्वामर्थक्रियामन्वयज्ञानलक्षणां कुर्वत् कथमर्थक्रियाकारि न स्यात् तद्बाह्यां पुनर्वाह-दोहाद्यर्थक्रियां यथा न सामान्यं कर्तुमुत्सहते तथा विशेषोऽपि केवलः, सामान्यविशेषात्मनो वस्तुनो गवादेस्तत्रोपयोगात् । इत्यर्थक्रियाकारित्वेनापि तयोरभेदः सिद्धः ।'-अष्टस० पृ. १२१ । ततो यदुक्तं धर्मकीत्तिना
यदेवार्थक्रियाकारि तदेव परमार्थसत् । अन्यत्संवृतिसत् प्रोक्ते ते स्वसामान्यलक्षणे ॥'
—प्रमाणवा० ३-३ इति ।