________________
२. प्रत्यक्ष - प्रकाशः
२७
स्वसंवेदनस्य विषयाजन्यत्वेऽपि प्रामाण्याभ्युपगमात् । न हि किञ्चित्स्वस्मादेव जायते ।
$ ५. नन्वतज्जन्यस्य ज्ञानस्य । कथं तत्प्रकाशकत्वम् ? इति चेत्; *घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा सन्तोष्टव्यमायुष्मता' । अथ कथमयं विषयप्रतिनियमः ? यदुत 'घटज्ञानस्य घट एव विषयो न पटः' इति । ग्रर्थजत्वं हि विषयप्रतिनियमकारणम्, तज्जन्यत्वात् तद्विषयमेव चैतदिति । तत्तु भवता नाऽभ्युपगम्यते इति चेत्; योग्यतैव विषयप्रतिनियमकारणमिति ब्रूमः । का नाम योग्यता ? इति2 । उच्यते - स्वावरणक्षयोपशमः । तदुक्तम् — “स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति [ परीक्षा० २-६] इति ।
1120
- यदि
१ बौद्धैः । २ अत्र बौद्धः पुनराशङ्कते नन्विति । ३ श्रयं भावःज्ञानं अर्थान्नोत्पद्यते तर्हि कथमर्थप्रकाशकं स्यात् ? तदेव हि ज्ञानमर्थप्रकाशकं यदर्थजन्यम्, प्रजन्यत्वे तु तस्यार्थो विषयो न स्यात् 'नाकारणं विषयः' इति वचनात् । ४ उत्तरयति - घटाद्यजन्योऽपि हि यथा प्रदीपः घटादिप्रकाशको भवति तथा ज्ञानमप्यर्थाजन्यं सत् श्रर्थप्रकाशकमिति किमनुपपन्नम् ? अर्थस्य ज्ञानकारणत्वनिरासस्तु पूर्वमेव कृतस्ततो नात्र किञ्चिद्वचनीयमस्ति । ५ सन्तोषः करणीयो भवता । ६ प्रमुकज्ञानस्य अमुक एव विषयो नान्य इति विषयप्रतिनियमः, स न स्याद्यदि ज्ञानस्यार्थ - जन्यत्वं नो भवेदिति शङ्काया आशयः । ७ अर्थजन्यत्वम् । ८ जैनेन । ९ जैना: । १० प्रतिनियतार्थव्यवस्थापकों हि तत्तदावरणक्षयोपशमोऽर्थग्रहणशक्तिरूपः । तदुक्तम् — 'तल्लक्षणयोग्यता च शक्तिरेव । सैव ज्ञानस्य 1 श्राप सुप्रतिषु 'अन्यस्य' इति पाठः । 2 द प्रतौ 'इति' पाठो नास्ति :