________________
न्याय-दीपिका $ ४. 'ननु निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात् । तदेव हि परमार्थसत्स्वलक्षणजन्यं न तु सविकल्पकम्, तस्यापरमार्थ भूतसामान्यविषयत्वेनार्थजत्वाभावादिति चेत् ;न'; अर्थस्यालोका वज्ञानकारणत्वानुपपत्तेः । तद्यथा-अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । तत्रालोकस्तावन्न ज्ञानकारणम्, 'तदभावेऽपि नक्तञ्चराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि[च] चूकादीनां तदनुत्पत्तेः । तद्वदर्थोऽपि न ज्ञानकारणम्, "तदभावेऽपि केशमशकादिज्ञानोत्पत्तेः । तथा च कुतोऽर्थजत्वं ज्ञानस्य ? | तदुक्तं परीक्षामुखे-"नार्थालोको कारणम्" [२-६] इति । प्रामाण्यस्य चार्थाव्यभिचार एव निबन्धनं न त्वर्थजन्यत्वम्,
इत्यादिना निश्चयात्मकस्यैव ज्ञानस्य प्रमाण्यं व्यवस्थापितम् ।
१ बौद्धः शङ्कते नन्विति । २ परमार्थभूतेन स्वलक्षणेन जन्यं 'परमार्थोऽकृत्रिममनारोपितं रूपम्, तेनास्तीति परमार्थसत् । य एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स एव च प्रत्यक्षविषयो यतस्तस्मात्तदेव स्वलक्षणम्'-न्यायबि० टी० पृ० २३, 'यदर्थक्रियासमर्थं तदेव स्वलक्षणमिति, सामान्यलक्षणं च ततो विपरीतम्'-प्रमाणसं० पृ० ६ । ३ जैन उत्तरयति । ४ अन्वयव्यतिरेकाभ्यां विना न कार्यकारणभावावगम इत्येतत्प्रदर्शनार्थ 'हि' शब्दः । ५ अालोकाभावेऽपि । ६ अालोकसद्भावेऽपि । ७ उलूकादीनाम् । ८ ज्ञानोत्पत्त्यभावात् । ६ आलोकवत् । १० अर्थाभावेऽपि । ११ केशोण्डुकादिज्ञानस्य भावात् । १२ तदभावववृत्तित्वं व्यभिचारस्तद्भिन्नोऽव्यभिचारः । तत्पदेनात्रार्थो ग्राह्यः । १३ कारणं प्रयोजकमित्यर्थः ।
1 'एतदेव हि' इति द प्रतिपाठः ।