________________
२५
२. प्रत्यक्ष प्रकाशः
मेव स्पष्टत्वम्, स्वानुभवप्रसिद्ध चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते” [ न्यायविनि० वि० का ० ३ ] इति । तस्मात्सुष्ठक्तं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति ।
[ सौगतीयप्रत्यक्षस्य निरासः ]
$ ३. “कल्पनापोढमभ्रान्तं प्रत्यक्षम् " [ न्यायबिन्दु पृ० ११] इति ताथागताः । अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रान्तमिति पदेन त्वाभासस्य । तथा च ' समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति ; तदेतद् बालचेष्टितम् ; निर्विकल्पकस्य प्रामाण्यमेव दुर्लभम्, समारोपाविरोधित्वात् कुतः प्रत्यक्षत्वम् ? व्यवसायात्मकस्यैव' प्रामाण्यव्यस्थापनात्' ।
न
१ तथा चोक्तम् — 'विशदज्ञानात्मकं प्रत्यक्षम्, प्रत्यक्षत्वात्, यत्तु विशदज्ञानात्मकं तन्न प्रत्यक्षं यथाऽनुमानादिज्ञानम्, प्रत्यक्षं च विवादाध्यासितम्, तस्माद्विशदज्ञानात्मकमिति । - प्रमाणपरी० पृ० ६७ । २ 'अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना, तया रहितम्' - न्यायबिन्दु पृ० १३ । नाम - जात्यादियोजना वा कल्पना, तयाऽपोढम्, कल्पनास्वभावशून्यमित्यर्थः । ' तत्र यन्न भ्राम्यति तदभ्रान्तम्' न्यायबिन्दुटीका पृ० १२ । ३ ‘प्रत्यक्षं कल्पनापोढम् । यज्ज्ञानमर्थे रूपादौ नाम - जात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्त्तते इति प्रत्यक्षम् - न्यायप्र० पृ० ७, 'प्रत्यक्षं कल्पनापोढं नाम-जात्याद्यसंयुतम् ' - प्रमाणसं ० का ० ३ ! प्रत्रेदं बोध्यम्- 'कल्पनापोढं प्रत्यक्षम्' इति दिग्नागस्य प्रत्यक्षलक्षणम्, अभ्रान्तविशेषणसहितं तु धर्मकीर्त्तेः । ४ तथागतः सुगतो बुद्ध इत्यनर्थान्तरम्, तदनुयायिनो ये ते ताथागता बौद्धाः । ५ व्यवच्छेदो निरास इति यावत् । ६ मिथ्याज्ञानस्य । ७ फलितलक्षणं प्रदर्शयति तथा चेति । निश्चयात्मकस्यैव ज्ञानस्य । ६ 'तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत्' ( परीक्षा० १-३ )