________________
२४
न्याय - दीपिका
$ २. किमिदं विशदप्रतिभासत्वं नाम ? उच्यते- ज्ञानावरणस्य' क्षयाद्विशिष्टक्षयोपशमाद्वा 1 शब्दानुमानाद्य' सम्भवि यन्नैर्मल्यमनुभवसिद्धम्, दृश्यते खल्वग्निरस्तीत्याप्त वचनाडूमादि लिङ्गाच्चोत्पन्नाज्ज्ञानादय' मग्निरित्युत्पन्नस्यैन्द्रियकस्य' ज्ञानस्य विशेषः । स एव नैर्मल्यम्, वैशद्यम्, स्पष्टत्वमित्यादिभिः शब्दैरभिधीयते । तदुक्तं भगवद्भिर कलङ्क देवै न्यायविनिश्चये
"प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा ।" [ का० ३] इति । विवृतं च स्याद्वादविद्यापतिना ” - “निर्मलप्रतिभासत्व
मित्यनेन सूचितम् । विद्यानन्दस्वामिनाऽप्युक्तम् - ' एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितम्, तत्प्रत्यक्षं परोक्षं चेति संक्षेपाद् द्वितयमेव व्यवतिष्ठते, सकलप्रमाणभेदानामत्रैवाऽन्तर्भावादिति विभावनात् ।' 'स्याद्वादिनां तु संक्षेपात्प्रत्यक्ष-परोक्षविकल्पात्प्रमाणद्वयं सिद्धयत्येव तत्र सकलप्रमाणभेदानां संग्रहादिति - प्रमाणपरी० पृ० ६३-६४,६७ । एतच्च प्रमेयकमलमार्तंडेऽपि ( २ - १ ) प्रपञ्चतो निरूपितम् ।
१ ज्ञानप्रतिबन्धकं ज्ञानावरणाख्यं कर्म, तस्य सर्वथा क्षयाद्विशेषक्षयोपशमाद्वा । २ श्रादिपदादुपमानार्थापत्त्यादीनां संग्रहः । ३ विश्वसनीयः पुरुष आप्त:, यथार्थवक्ता इति यावत् । ४ त्रादिपदेन कृतकत्व - शिशपात्वादीनां परिग्रहः । ५ पुरो दृश्यमानः । ६ इन्द्रियजन्यस्य । ७ श्रनुमानाद्यपेक्षया विशेषप्रतिभासन रूपः । तदुक्तम् — अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशद्यं मतं बुद्धेः - लघीय० का०४ । ८ विशेषः । अस्या: कारिकाया उत्तरार्धमिदमस्ति - 'द्रव्य - पर्यायसामान्यविशेषार्थात्मवेदनम् । १० व्या ख्यातं न्यायविनिश्चयविवरणे । ११ श्रीमद्वादिराजाचार्येण ।
1 ' शाब्द' इति श्रा प्रतिपाठः ।