________________
२. प्रत्यक्षप्रकाश:
-::
[प्रमाणं द्विधा विभज्य प्रत्यक्षस्य लक्षणकथनम् ] १. अथ प्रमाणविशेषस्वरूपप्रकाशनाय प्रस्तूयते । प्रमाणं' द्विविधम्-प्रत्यक्ष परोक्षं चेति । तत्र विशदप्रतिभासं प्रत्यक्षम् । इह प्रत्यक्ष लक्ष्यं विशदप्रतिभासत्वं लक्षणम् । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः ।
१. प्रमाणसामान्यलक्षणनिरूपणानन्तरमिदानी प्रकरणकारः प्रमाणविशेषस्वरूपप्रतिपादनाय द्वितीयं प्रकाशं प्रारभते अथेति । २ पूर्वोक्तलक्षणलक्षितम् । ३ विभागस्यावधारणफलत्वात्तेन द्विप्रकारमेव, न न्यूनं नाधिकमिति बोध्यम् । चार्वाकाद्यभिमतसकलप्रमाण भेदानामत्रैवान्तभर्भावात् । तत्र प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे इति वौद्धाः वैशेषिकाश्च, प्रत्यक्षानुमानोपमानानि त्रीण्येव प्रमाणानीति सांख्याः, तानि च शाब्दं चेति चत्वार्येव इति नैयायिकाः, सहार्थापत्त्या च पञ्चेति प्राभाकराः, सहानुपलब्ध्या च षट् इति भाट्टाः वेदान्तिनश्च, सम्भवैतिह्याभ्यां सहाष्टौ प्रमाणानीति पौराणिकाः । तथा चोक्तम्
प्रत्यक्षमेकं चार्वाकः कारणात्सौगताः पुनः । अनुमानं च तच्चैव सांख्याः शाब्दं च ते अपि ॥१॥ न्यायकदेशिनोऽप्येवमुपमानं च केन च । अर्थापत्त्या सहैतानि चत्वार्याहुः प्रभाकराः ॥२॥ अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा । सम्भवैतिशयुक्तानि तानि पौराणिका जगुः ॥३॥ तदेतेषां सर्वेषां यथायथं प्रत्यक्ष-परोक्षप्रमाणयोरेवान्तर्भाव इति द्विविध