________________
न्याय-दीपिका
'न्यलक्षणत्वादुिपेक्ष्यन्ते । तस्मात्स्वपरावभासनसमर्थं सविकल्पमगृहीतग्राहक सम्यग्ज्ञानमेवाज्ञानमर्थे 'निवर्त्तयत्प्रमाणमित्यार्हतं मतम् ।
इति श्रीपरमाहताचार्य-धर्मभूषण-यति-विरचितायां न्यायदीपिकायां प्रमाणसामान्यलक्षणप्रकाशः प्रथम- ॥१॥ त्वस्यैवाघटनान्न परीक्षार्हाणि, अपि तूपेक्षाहाण्येव । ततो न तान्यत्र परीक्षितानि ग्रन्थकृता । नन्विन्द्रियवृत्तेः कारकसाकल्यादेर्वा प्रमाणत्वं कथं न घटते ? इति चेत् ; उच्यते ; इन्द्रियाणामज्ञानरूपत्वात्तवृत्तरप्यज्ञानरूपत्वेन प्रमाणत्वायोगात् । ज्ञान रूपमेव ही प्रमाणं भवितुमर्हति, तस्यैवाऽज्ञाननिवर्तकत्त्वात्प्रदीपादिवत् । इन्द्रियाणां चक्षुरादीनां वृत्तिहि तदुद्धाटनादिव्यापारः, स च जडस्वरूपः, ततो न तेनाज्ञाननिवृत्तिः सम्भवति घटादिवत् । तस्मादिन्द्रियवृत्तेरज्ञाननिवृत्तिरूपप्रमा प्रति करणत्वाभावान्न प्रमाणत्वमिति भावः ।।
एवं कारकसाकल्यस्याऽप्यबोधस्वभावस्याज्ञानरूपत्वेन स्व-परज्ञानकरणे साधकतमत्वाभावान्न प्रमाणत्वम् । अतिशयेन साधकं साधकतमम्, साधकतमं च करणम् । करणं खल्वसाधारण कारणमुच्यते । तथा च सकलानां कारकाणां साधारणासाधारणस्वभावानां साकल्यस्य–परिसमाप्त्या सर्वत्र वर्तमानस्य सामस्त्यस्य-कथं साधकतमत्वमिति विचारणीयम् ? साधकतमत्वाभावे च न तस्य प्रमाणत्वम्, स्व-परपरिच्छित्तौ साधकतमस्यैव प्रमाणत्वघटनात् । तेनैव ह्यज्ञाननिवृत्ति: सम्पादयितुं शक्येत्यलं विस्तरेण । ततः सम्यग्ज्ञानं प्रमाणम्' इत्येतदेव प्रमाणस्य सम्यक् लक्षणम् ।
१ लक्षणाभासत्वात्, लक्षणकोटौ प्रवेष्टुमयोग्यत्वादिति भावः । २ न परीक्षाविषयीक्रियन्ते । ३ उपसंहारे 'तस्मात्' शब्दः । ४ अपूर्वार्थनिश्चायकम् । ५ घटादिपदार्थेष्वज्ञाननिवृत्ति कुर्वत् । ६ जैनम् । ७ शासनम् ।
1 'न्यलक्ष्यत्वा' इति द आ प्रतिपाठः ।