________________
१. प्रमाणसामान्यप्रकाशः
२१
[न्यायकुसु० ४–६ ] इति 'यौगाग्रसरेणोदयने नोक्तत्वात् । तत्परिहाराय केचन बालिशाः “साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणम्” [सर्वदर्शनसं० पृ० २३५ ] इति वर्णयन्ति तथापि साधनाश्रयान्यतर पर्यालोचनायां साधनमाश्रयो वेति फलति । तथा च "परस्पराव्याप्तिर्लक्षणस्य ।
२८ अन्यान्यपि पराभिमतानि प्रमाणसामान्यलक्षणा
१ योगाः - नैयायिकास्तेषामग्रेसरः प्रधानः प्रमुखो वा तेन । २ महेश्वरेऽव्याप्तिदोषनिराकरणाय । ३ सायणमाधवाचार्याः । ४ सर्वदर्शनसंग्रहे 'साधनाश्रयाव्यतिरिक्तत्वे' इति पाठः । तट्टीकाकृता च तथैव व्याख्यातः । यथा हि - 'यथार्थानुभवः प्रमा, तस्याः साधनं करणम् । ग्राश्रय श्रात्मा । तदुभयापेक्षया भिन्नं यन्न भवति तथाभूतं सद्यत्प्रमया नित्यसम्बद्धं तत्प्रमाणमित्यर्थः । ५ प्रमासाधन- प्रमाश्रययोर्मध्ये प्रमासाधनं प्रमाणं प्रमाश्रयो वेति विचारे क्रियमाणे । ६ साधनाश्रययोरन्यतरस्य प्रमाणत्वाङ्गीकारे । ७ श्रयं भावः- - प्रमासाधनस्य प्रमाणत्वाङ्गीकारे प्रमाश्रये प्रमाणेव्याप्तिः प्रमाश्रयस्य च प्रमाणत्वस्वीकारे प्रमासाधने प्रमाणेऽव्याप्तिः, यतो ह्यन्यतरस्य प्रमाणत्वपरिकल्पनात् । उभयपरिकल्पने चासम्भवित्वं स्पष्टमेव । न हि प्रमाणत्वेनाभ्युपगतस्यैकस्य (सन्निकर्षस्य महेश्वरस्य वा ) कस्यचिदपि प्रमासाधनत्वं प्रमाश्रयत्वं चोभयं सम्भवि । इत्थं च नैयायिकाभिमतमपि प्रमाकरणं प्रमाणमिति प्रमाणलक्षणं न समीचीनमिति प्रतिपादितं बोद्धव्यम् ।
,
८ 'इन्द्रियवृत्तिः प्रमाणम्' इति सांख्याः, 'अव्यभिचारिणीमसंदिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री ( कारकसाकल्यं ) प्रमाणम्' ( न्यायमं० प्रमा० पृ० १४ ) इति जरन्नैयायिका : ( जयन्तभट्टादयः ) इत्यादीन्यपि परोक्तानि प्रमाणसामान्यलक्षणानि सन्ति परं तेषां प्रमाण
1 ' प्रमाणस्य' इति म प मु प्रतिषु पाठः ।