________________
न्याय-दीपिका
[नैयायिकानां प्रमाणलक्षणस्य समीक्षा] २७. “प्रमाकरणं प्रमाणम्' [ न्यायमं० प्रमा० पृ० २५ इति नैयायिकाः । तदपि प्रमादकृतं लक्षणम् ; ईश्वराख्य एवं "तदङ्गीकृतेप्रमाणेऽव्याप्तेः । अधिकरणं हि महेश्वरः प्रमाया: न तु करणम् । न चायमनुक्तो पालम्भः, “तन्मे प्रमाणं शिवः तदा संविदेव मानम् । तस्याश्च व्यवहारानुगुणस्वभावत्वाद्धानोपादानो पेक्षाः फलम् । प्रमीयतेऽनेनेति करणसाधने प्रमाणशब्दे आत्म-मनःसन्निका त्मिनो ज्ञानस्य प्रमाणत्वे तद्वलभाविनी फल (लं) संविदेव बाह्यव्यवः हारोपयोगिनी सती"-प्रमाणपा० प० पृ० ६४ ।
१ वात्स्यायन-जयन्तभट्टादयस्ताकिकाः । यथा हि 'प्रमीयतेऽनेनेति करणार्थाभिधानः प्रमाणशब्द:,-न्यायभा० १. १. ३, 'प्रमीयते येन तत्प्रमाणमिति करणार्थाभिधायिनः प्रमाणशब्दात् प्रमाकरणं प्रमाणमवगम्यते'–न्यायमं० प्रमाण० पृ० २५ । २ प्रमाकरणं प्रमाणमिति नैयायिकाभिमतमपि । ३ सदोषम् । ४ महेश्वरे। ५ नैयायिकैरभ्युपगते । ६ अाश्रयः । ७ तत्प्रमायाः नित्यत्वात्करणत्वासम्भवात् । ८ अत्रायमाशयः-उपालम्भो दोषः (आरोपात्मकः), स च 'महेश्वरः प्रमाणम्' इत्ये वरूपो नानुक्तो भवता न स्वीकृत इति न, अपि तु महेश्वरस्य प्रमाणत्वं स्वीकृतमेव 'तन्मे प्रमाणं शिवः' इति वचनात्, तथा चेश्वराख्यप्रमाणस्य प्रमाया अधिकरणत्वेन प्रमाकरणत्वाभावादव्याप्तिदोषकथनं ग्रन्थकृता सङ्गतमेवेति भावः । ६ सम्पूर्णः श्लोकस्त्वित्थं वर्त्तते
साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थिती भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः । लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरस्तन्मे प्रमाणं शिवः ॥ 1 'ईश्वराख्ये तदङ्गीकृत एव' इति म प मु प्रतिषु पाठः