________________
१. प्रमाणसामान्यप्रकाशः
दी० पृ० १२३] इति भाट्टाः । तदप्यव्याप्तम्, तैरेव प्रमाणत्वेनाभिमतेषु 'धारावाहिकज्ञानेष्वनधिगतार्थ निश्चायकत्वाभावात् । उत्तरोत्तरक्षणविशेष विशिष्टार्थावभासकत्वेन तेषामनधिगतार्थनिश्चायकत्वमिति नाऽऽशङ्कनीयम्, क्षणानामतिसूक्ष्माणामाल -. 'क्षयितुमशक्यत्वात् ।
१६
[ प्रभाकरीयप्रमाणलक्षणस्य समीक्षा ]
$ २६. "अनुभूति: प्रमाणम्" [वृहती ] १-१-५ ] इति प्राभाकराः । तदप्यसङ्गतम् ; अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, 'करणसाधनत्वे तु भावलक्षणप्रमाणाव्याप्तेः,करण-भावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेन --
"यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्म-मनः सन्निकर्षः "१० [ प्रकरणप० प्रमाणपा० पृ० ६४ ] इति । चापरमार्थभूतसामान्यविषयत्वादनुमानस्य नाविसंवादित्वमिति भावः ।
१ गृहीतार्थविषयकाण्युत्तरोत्तरजायमानानि ज्ञानानि धारावाहिकज्ञानानि तेषु । २ ननूत्तरोत्तरजायमानधारावाहिकज्ञानानां तत्तत्क्षणविशिष्टघटाद्यर्थनिश्चायकत्वेनागृहीतार्थविषयकत्व मेव, ततो न तैरख्याप्तिरिति शङ्कितुर्भावः । ३ शङ्का न कार्या । ४ आदर्शयितुम् । ५ 'प्रमाणमनुभूतिः' - प्रकरणपजि० पृ० ४२ । ६ प्रभाकर मतानुसारिणः । ७ अनुभवोऽनुभूतिरित्येवंभूते । ८ अनुभूयतेऽनेनेति अनुभूतिरित्येवंरूपे । ६ प्राभाकराणां मते । १० प्रभाकर मतानुसारिणा शालिकानाथेन यदुक्तं तत्प्रकरणपञ्जिकायामित्थं वर्त्तते — 'यदि प्रमितिः प्रमाणं इति भावसाधनं मानमाश्रीयते 1 द प्रतौ 'लक्षयितुम' इति पाठः ।