SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ न्याय - दीपिका $ २३. तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशंगतैः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुतीमः । तथा हि- [ सौगतीयप्रमाणलक्षणस्य समीक्षा ] $२४. “ अविसंवादि ज्ञानं प्रमाणम्" [ प्रमाणवा० २ - १] इति बौद्धाः । तदिदमविसंवादित्वमसम्भवित्वादलक्षणम् । बौद्धेन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं न्यायबिन्दौ ' -- " द्विविधं सम्यग्ज्ञानम्", "प्रत्यक्षमनुमानं च" [ न्यायबिन्दु पृ० १० ] इति । तत्र न तावत्प्रत्यक्षस्याविसंवादित्वम्, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभावात् । नाऽप्यनुमानस्य तन्मतानुसारेण' 'तस्याऽप्यपरमार्थभूतसामान्यगोचरत्वादिति । १८ [कुमारिलभट्टीयप्रमाणलक्षणस्य समीक्षा ] $ २५. “अनधिगततथाभूतार्थनिश्चायकं प्रमाणम्” [ शास्त्र १ मिथ्यात्वाभिप्रायैः । २ जनानाम् । ३ उपकुर्मः । ४ न निर्दोषलक्षणम् । ५ बौद्धतार्किकधर्म कीत्तिविरचिते न्यायविन्दुनाम्नि ग्रन्थे । ६ यन्न समारोपविरोधि तन्नाविसंवादि, यथा संशयादि, तथा च प्रत्यक्षम्, तस्मान्न तदविसंवादीति भावः । ७ अविसंवादित्वमिति सम्बन्धः । ८ बौद्धमतानुसारेण । अनुमानस्यापि । १० प्रयमत्राशयः - बौद्धमते हि द्विविधं प्रमेयं विशेषाख्यं स्वलक्षणमन्यापोहाख्यं सामान्यं च । तत्र स्वलक्षणं परमार्थभूतं प्रत्यक्षस्य विषयः स्वेनासाधारणेन लक्षणेन लक्ष्यमा - णत्वात्, सामान्यं त्वपरमार्थभूतमनुमानस्य विषयः परिकल्पितत्वात् । तथा
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy