________________
१. प्रमाणसामान्यप्रकाशः
ज्ञानं मम जातमिति ज्ञानस्वरूपनिर्णयेऽपि प्रामाण्यनिर्णयोऽन्यत' एव, अन्यथोत्तरकालं सन्देहानुपपत्तेः । अस्ति हि सन्देहो 'जलज्ञानं मम जातं तत्कि जलमुत मरीचिका इति। ततः कमलपरिमलशिशिर1मरुत्प्रचारप्रभृतिभिरवधारयति--'प्रमाणं' प्राक्तनं जलज्ञानं कमलपरिमलाद्यन्यथानुपपत्तेः' इति ।
२२ "उत्पत्तिवत्प्रामाण्यस्य ज्ञप्तिरपि परत एवेति यौगाः । तत्र प्रामाण्यस्योत्पत्तिः परत इति युक्तम् । ज्ञप्तिः पुनरभ्यस्तविषये स्वत एवेति स्थितत्वात् ज्ञप्तिरपि परत "एवेत्यवधारणानुपपत्तिः2 । ततो व्यवस्थितमेतत्प्रामाण्यमुत्पत्तौ परत एव, ज्ञप्तौ तु कदाचित्स्वतः "कदाचित्परत इति । तदुक्तं प्रमाणपरीक्षायां ज्ञप्ति प्रति५---
प्रमाणा "दिष्ट-संसिद्धि "रन्यथाऽतित्र सङ्गत:१९ । प्रामाण्यं तु स्वतः सिद्धमभ्यासात् परतोऽन्यथा ॥ [प्र.प.प्र.६३ ] स्यात् । १ संवादज्ञानान्तरादर्थक्रियाज्ञानाद्वा । २ अनभ्यस्ते-अपरिचिते विषये प्रामाण्य निर्णयोऽन्यतो न स्यात् । ३ बालुपुञ्जः । ४ सन्देहान्तरम। ५ साध्यम् । ६ धर्मी । ७ यथा प्रामाण्यस्योत्पत्तिः परतस्तथा। ८ यौगशब्देन नैयायिक-वैशेषिको गृह्यते। ६ उत्पत्ति-ज्ञप्त्योमध्ये । १० निश्चितत्वात् । ११ अन्यनिवृत्तिरूपफलजनकावधारणपरकैवकारप्रयोगासम्भवात् । १२ सम्यग् निश्चितम् । १३ अभ्यासदशायाम् । १४ अनभ्यासदशायाम् । १५ ज्ञप्तिमभिप्रेत्य । १६ सम्यग्ज्ञानात् । १७ इष्टोऽर्थस्तस्य सम्यकप्रकारेण सिद्धिप्तिलक्षणाऽभिलषितप्राप्तिलक्षणा वा । उत्पत्तिलक्षणा तु सिद्धिनात्र विवक्षिता, ज्ञापकप्रकरणात् । १८ प्रमाणाभासात् । १६ इष्टसंसिद्धय - भावः । २० अभ्यासदशायाम् । २१ अनभ्यासदशायाम् । 1 'मन्द' इत्यधिक: पाठो मुद्रितप्रतिषु । 2 'नुपपत्तेः इति द प्रतिपाठः ।