________________
न्याय-दीपिका १९ एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यम् ; विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्यं स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते। न हि पटसामान्यसामग्री रक्तपटेहेतुः । तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोभिन्नकारणप्रभवत्वावश्यम्भावादिति ।
२० कथं तस्य ज्ञाप्ति:? अभ्यस्ते विषये स्वतः,अनभ्यस्ते तु परत: । कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्त: ? उच्यते; परिचितस्वग्रामतटाकजलादिरभ्यस्तः, तद्वयतिरिक्तोऽनभ्यस्तः। किमिदं स्वत इति ? किं नाम परत इति ? ज्ञानज्ञापकादेव प्रामाण्यज्ञप्ति:1 स्वत इति ? ततोऽतिरिवताज्ज्ञप्ति: परत इति। -
२१ तत्र तावदभ्यस्ते विषये2 जलमिति3 ज्ञाने जाते ज्ञानस्वरूपज्ञप्तिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव । अन्यथोत्तर क्षण एव निःशङ्कप्रवृत्तिरयोगात्। अस्ति हि जलज्ञानोत्तरक्षण एव निःशङ्कप्रवृत्तिः4। अनभ्यस्ते तु विषये जलज्ञाने जाते जल
१ प्रामाण्याप्रामाण्ययोभिन्नकारणसिद्धेऽपि । २ जैन उत्तरयति नेति। ३ निर्मलतादिगुणेभ्यः । ४ ज्ञानप्रामाण्ये भिन्नकारणजन्ये भिन्नकार्यत्वादप्रमाण्यवदित्यनुमानमत्र बोध्यम् । ५ प्रामाण्यस्य । ६ निश्चयः । ७ परिचिते । ८ अपरिचिते । ६ ज्ञानस्वरूपज्ञप्तिसमये प्रामाण्यनिश्चयो नो चेत् । १० जलज्ञानानन्तरसमये । ११ जले सन्देहरहिता प्रवृत्तिन
1 म प मु प्रतिषु 'प्रमाण्यस्य' इति पाठः । 2 म मु 'अभ्यस्तविषये' इति पाठः। 3 म प मु 'जलमिदमिति' पाठः । 4प मु 'निःशंका' पाठः।