________________
१. प्रमाणसामान्यप्रकाशः |
याऽव्यभिचारित्वम्। । तस्योत्पत्तिः कथम् ? स्वत एवेति मोमांसकाः। प्रामाण्यस्य स्वत उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तम्- 'ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्व मुत्पत्तौ स्वतस्त्वम्” [ ] इति । न ते मीमांसकाः, ज्ञानसामान्यसामग्रयाः संशयादावपि ज्ञानविशेष सत्त्वात् । वयं तु ब्रूमहे ज्ञानसामान्यसामग्रयाः साम्येऽपि संशयादिरप्रमाणं सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबन्धनो न भवति । ततः संशयादौ यथा हेत्वन्तर मप्रामाण्ये दोषादिकमङ्गीक्रियते तथा प्रमाणेऽपि2 "प्रामाण्यनिबन्धनमन्यदवश्यमभ्युपगन्तव्यम्, अन्यथा प्रमाणाप्रमाणविभागानुपपत्ते:१३ ।
स्याद्वादिनो जैना इत्येवं वादिनां विप्रतिपत्तेः सद्भावात्संशयः स्यात्तन्निराकरणाय प्रामाण्याप्रामाण्यविचार: प्रक्रम्यते किमिदमिति ।
१ प्रामाण्यस्य । २ येनैव कारणेन ज्ञानं जन्यते तेनैव तत्प्रामाण्यमपि न तद्भिन्नकारणेनेति भावः । ३ ज्ञानस्योत्पादको यो हेतुः कारणं तदतिरिक्तजन्यत्वं ज्ञानोत्पादककारणोत्पाद्यत्वमित्यर्थः । ४ समाधत्ते नेति, मीमांसका:-विचारकुशलाः । ५ समग्राणां भाव:-एककार्यकारित्वं सामग्री-यावन्ति कारणानि एकस्मिन् कार्ये व्याप्रियन्ते तानि सर्वाणि सामग्रीति कथ्यन्ते । ६ मिथ्याज्ञाने । ७ जैनाः । ८ अकारणः । ६ एकस्माद्धेतोरन्यो हेतुः हेत्वन्तरं ज्ञानसामान्यकारणाद्भिन्नकारणमित्यर्थः । १० स्वीक्रियते, भवता मीमांसकेन । ११ गुणादिकम्-नैर्मल्यादिकम् । १२ गुणदोषकृतप्रामाण्याप्रामाण्यानभ्युपगमे । १३ इदं ज्ञानं प्रमाणमिदमप्रमाणमिति विभागो न स्यात् ।।
1 'प्रमाण्यं' इत्यधिकः पाठः म प्रती। 2 'अपि' इति पा प्रतो नास्ति।