________________
१४
न्याय-दीपिका
'दृष्टस्यापि मध्ये समारोपे ' सत्यदृष्टत्वात् । तदुक्तम् - " दृष्टोऽपि समारोपात्तादृक् " [ परीक्षा ० १ - ५] इति ।
$ १७ एतेन निर्विकल्प के सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहृता । "तस्याव्यवसायरूपत्वेन प्रमिति प्रति करणत्वाभावात् । निराकारस्य 1 ज्ञानात्वाभावाच्च । “निराकारं दर्शनं साकारं ज्ञानम्” [सर्वार्थसि० २-९ ] इति प्रवचनात् । तदेवं 2 प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नाऽतिव्याप्तम् । नाऽप्यव्याप्तम्, लक्ष्ययोः प्रत्यक्ष परोक्षयोर्व्याप्यवृत्तेः ' । नाऽप्यसम्भवि, 'लक्ष्यवृत्तेरबाधितत्वात्" ।
[ प्रमाणस्य प्रामाण्यनिरूपणम् ]
$ १८ किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविष
१ ज्ञातस्यापि । २ संशयविपर्ययानध्यवसायविस्मरणलक्षणे ३ ज्ञातपदार्थोऽपि सति संशये, विपर्यये, अनध्यवसाये, उवस्मरणे वाऽज्ञाततुल्यो भवति । अतस्तद्विषयकं ज्ञानं प्रमाणमेवेति भाव। प्रक्षलिङ्गशब्दधारावाहिकबुद्धिष्वतिव्याप्तिनिराकरणेन । ५ निवित पकदर्शनस्य । ६ अनिश्चयात्मकत्वेन । ७ श्रागमात् । ८ यावल्लक्ष्येषु वर्तमानत्वं व्याप्यवृत्तित्वम् । ६ लक्ष्ययोः प्रत्यक्षपरोक्षयोः । १० तदेव हि सम्यक् लक्षणं यदव्याप्त्यादिदोपत्रयशून्यमित्यभिप्रेत्य ग्रन्थकृता दोषत्रयपरिहारः कृतः । ११ प्रामाण्यं स्वतोऽप्रामाण्यं परत इति मीमांसकः, अप्रामाण्यं स्वतः प्रामाण्यं परत इति ताथागताः, उभयं स्वत इति सांख्याः, उभयमपि परत इति नैयायिक - वैशेषिकाः, उभयमपि कथञ्चित्स्वतः कथञ्चित्परत इति
1 म प मु प्रतिषु 'दर्शनस्य इत्यधिकः पाठः । 2 म पसु प्रतिषु 'तस्मात्' इति पाठः ।