________________
१. प्रमाणसामान्यप्रकाशः
१३
उपचारप्रवृत्तौ च सहकारित्वं निबन्धनम् । न हि सहकारित्वेन 'तत्साधकमिद मिति करणं नाम, साधकविशेषस्यातिशयवत: करणत्वात् । तदुक्तं जैनेन्द्रे-“साधकतमं करणम्' [१।२।११४] इति1 । तस्मान्न लक्षणस्याक्षादावतिव्याप्तिः ।
१५ अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासाँ सम्यज्ञानत्वात् । न च तासामार्हतमते प्रामाण्याभ्युपगम इति; उच्यते; एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाचे ज्ञाने प्रवृत्ते तेन घटप्रमितौ सिद्धायां पुनर्घटोऽयं घटोऽयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारवाहिकज्ञानानि भवन्ति2। न ह्य:तेषां3 प्रमिति प्रति साधकतमत्वम्, प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात् । कथं तत्र लक्षणमतिव्याप्नोति ? तेषां गृहीतग्राहित्वात्।
१६ ननु बटे दृष्टे पुनरन्यव्यासङ्गेन पश्चात् घट एव दृष्टे पश्चात्तनं ज्ञानं पुनरिमाणं प्राप्नोति धारावाहिकवदिति चेत् ;न;
-..र____१ 'मुख्यभावे व प्रयोजने निमित्ते चोपचार: प्रवर्त्तते' इति नियमात् । २ प्रमिति धकम् । ३ अक्षादिकम् । ४ असाधारणसाधकस्य ज्ञानस्य । ५ अत्रातिशयो नाम नियमेन कार्योत्पादकत्वम् । ६ अक्षलिङ्गादावतिव्याप्तिवारणेऽपि । ७ धाराबाहिकबुद्धीनाम् । ८ आद्येन घटज्ञानेन । ६ धारावाहिकज्ञानानाम् । १० धारावाहिकबुद्धिषु । ११ धारावाहिकज्ञानानाम् । १२ अन्यस्मिन् कार्ये व्यापृते चित्तस्याभ्यासशक्तिासङ्गः । बुद्धेरन्यत्र संचारो विषयान्तराकृष्टत्वं वा व्यासङ्गः ।
____ 1 'इति' पाठो मुद्रितप्रतिषु नास्ति । -2 'भवन्ति' म प मु प्रतिषु नास्ति । 3 'एषां' इति म प मु प्रतिषु पाठः ।