SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १.२ न्याय - दीपिका प्रमीयते, धूमेन प्रमीयते, शब्देन प्रमीयत इति व्यवहार1 इति चेत्; न; अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् । $ १२ तथा हि-प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ 2 करणेन 3 सता' तावदज्ञानविरोधिना भवितव्यम् । न चाक्षादिकमज्ञानविरोधि4, अचेतनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव' करणत्वमुचितम् । लोकेऽप्यन्धकारविघटनाय तद्विरोधी प्रकाश' एवोपास्यते ' न पुनर्घटादिः, तद विरोधित्वात् । $ १३ किञ्च, अस्वसंविदितत्वादक्षादेर्नार्थिप्रमितौ साधकतमत्वम्, स्वावभासनाशक्तस्य परावभासकत्वायोगात् 5 । ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीतम् । ततः स्थितं प्रमिताव - साधकतमत्वादकरण मक्षादय इति । $ १४ चक्षुषा प्रमीयत इत्यादिव्यवहारे पुनरुपचारः शरणम्, १ समाधत्ते नेति । २ वादिनः प्रतिवादिनो वा । ३ विवादः । ४ प्रमिति: । ५ प्रमित्युत्पत्तौ । ६ भवता । ७ ज्ञानरूपस्य । ८ प्रदी पादिः । 8 अन्विष्यते । १० तेनान्धकारेण सह घटादेविरोधाभावात् । ११ स्वपरपरिच्छेदकम् । १२ प्रमिति प्रति न करणम् । 1 ' इति व्यवहारः' श्रा प्रतौ नास्ति । 2 'तदुत्पत्तौ तु' इति द प्रतिपाठः । 3 'भवता' इति पाठो म प मु प्रतिषु अधिकः । 4 ... दिकं तद्विरोधि' इति द प्रतौ पाठः । 5 'घटवत्' इत्यधिकः पाठो म प प्रत्योः ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy