________________
१. प्रमाणसामान्यप्रकाशः मिह ज्ञानपदम् । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति । 'करणाधारे चानट” [जैनेन्द्रव्या० २।३।११२] इति करणेऽप्यनटप्रत्ययानुशासनात् । भावसाधनं तु ज्ञानपदं प्रमितिमाह1 । अन्यद्धि भावसाधनात्करणसाधनं2 पदम् । एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्त्तव्यम् । अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याघटनात्। तेन प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धम् । तदुक्तं प्रमाणनिर्णये—“इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वम्” [प्रत्यक्षनिर्णय पृ० १] इति । . ११ नन्वेव मप्यक्षलिङ्गादा वतिव्याप्तिर्लक्षणस्य, तत्रापि प्रमितिरूपं फलं प्रति' करणत्वात् दृश्यते हि चक्षुषा
१ विधानात् । २ ज्ञानपदवत् । ३ 'सम्यग्ज्ञानं प्रमाणम्' इत्यत्र प्रमाणलक्षणे प्रयुक्तं 'प्रमाणम्' इति पदम् । ४ प्रमाणपदं करणसाधनं नो चेत् । ५ प्रोक्तलक्षणशाब्दसामानाधिकरण्यानुपपत्तेः । ६ सुनिश्चितम् । ७ अतिशयेन साधकमिति साधकतमं नियमेन कार्योत्पादकमित्यर्थः । ८ संशयादौ प्रमात्रादौ च प्रोक्तप्रमाणलक्षणस्य व्यावृत्तावपि, अथ च प्रमाणपदस्य करणसाधनत्वेऽपि । ६ आदिपदेन धूमादेर्ग्रहणम् । १० अयमत्राशयः—यदि 'प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणम्' इति प्रमाणार्थः कक्षीक्रियते तहि प्रमितिरूपं फलं प्रति करणत्वेनाक्ष-लिङ्गादेरपि प्रमाणत्वप्रसङ्गात् । अक्षलिङ्गादिः—इन्द्रिय-धूम-शब्दादिः । ११ अक्षलिङ्गादौ ।
1 प्रमितिराह' इति प्रा प्रतिपाठः । 2 'साधनपदं' इति प प्रतिपाठः :