________________
न्याय-दीपिका याभावान्न विपर्यय इति पृथगेव' । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवन्ति, सम्यग्ज्ञानानि तु न भवन्तीति सम्यक्पदेन व्युदस्यन्ते । ज्ञानपदेन प्रमातुः प्रमितेश्च' व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं न तु ज्ञानत्वम् ।
$१० ननु प्रमितिकर्तुः प्रमातुतृित्वमेव न ज्ञानत्वमिति यद्यपि ज्ञानपदेन व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्त्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेत् ; भवेदेवम् ; यदि भावसाधन
संशय-विपर्ययाभ्यां ज्ञानान्तरत्वं प्रसाधयति इदमिति, इदम् –अनध्यवसायाख्यं ज्ञानम् । इदमत्र तात्पर्यम् -संशये नानाकोट्यवलम्बनात्, विपर्यये च विपरीतैककोटिनिश्चयात् । अनध्यवसाये तु नैकस्या अपि कोटेनिश्चयो भवति । ततस्तदुभयभिन्नविषयत्वेन कारणस्वरूपभेदेन च ताभ्यामिदं ज्ञानं भिन्नमेव । तथा चोक्तम्-'अस्य (अनध्यवसायस्य) चानवधारणात्मकत्वेऽपि कारणस्वरूपादिभेदान्त संशयता । अप्रतीतविशेषविषयत्वेनाऽपि अस्य सम्भवादुभयविशेषानुस्मरणजसंशयतो भेद एवेति कन्दलीकाराः।-प्रशस्तपा० टि० पृ० ६१।।
१ संशय-विपर्ययाभ्याम् । २ संशयादीनि। ३ निराक्रियन्ते । ४ सम्यक्पदस्य कृत्यं प्रदर्श्य ज्ञानपदस्य कृत्यं प्रदर्शयति ज्ञानपदेनेति । ५ ननु ज्ञानपदेन यथा प्रमातुः प्रमितेश्च व्यावृत्तिः कृता तथा प्रमेयस्य कथं न कृता तस्यापि ज्ञानत्वाभावात्, इति चेत्तस्यापि चशब्दाद् ग्रहणं बोध्यम् । यद्यपि स्वपरिच्छेद्यापेक्षया ज्ञानस्य प्रमेयत्वमस्त्येव तथापि घटपटादिबहिरर्थापेक्षया प्रमेयत्वं नास्तीत्यतो युक्तं चशब्दात्तस्य ग्रहणम् । ६ प्रमातरि प्रमितौ प्रमेये च । ७ भावसाधनपक्षे । ८ प्रमितेरव्यावर्त्तनम् । ६ ज्ञप्तिमात्रं ज्ञानमिति ।