________________
१. प्रमाणसामान्यप्रकाश:
मी [ प्रमाणसामान्यस्य लक्षणकथनम् ]
८ सम्यग्ज्ञानं प्रमाणम् । अत्र प्रमाणं लक्ष्यं सम्यग्ज्ञानत्वं तस्य लक्षणम् । गोरिव सास्नादिमत्वम्, अग्नेरिवौष्ण्यम् । अत्र' सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाय क्रियते, अप्रमाणत्वादेतेषां ज्ञानानामिति । REE तथा हि-विरुद्धानेककोटिस्पशि ज्ञानं संशयः, यथा स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुष साधारणोद्धतादिधर्मदर्शनातद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणाभावादनेककोट्यवलम्बित्वं ज्ञानस्य । विपरीतैककोटिनिश्चयो विपर्ययः, यथा शुक्तिकायामिदं रजतमिति ज्ञानम् । अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसायः',यथा पथि1 गच्छतस्तृणस्पर्शादिज्ञानम् । इदं" हि नानाकोटयवलम्बनाभावान्न संशयः । विपरीतैककोटिनिश्च
१ यावत्सम्यग्ज्ञानवृत्ति: सामान्यरूपो धर्मः सम्यग्ज्ञानत्वम् । २ 'सम्यग्ज्ञानं प्रमाण' मित्यत्र । ३ संशयादीनाम् । ४ कोटि:-पक्षः, अवस्था वा । ५ उभयवृत्ति: सामान्यरूप ऊर्दूतादिधर्मः साधारणः । ६ स्थाणुपुरुषविशेषस्य, स्थाणोविशेषो वक्रकोटरादिः । पुरुषस्य तु शिर:पाण्यादिरिति भावः । ७ तदभाववति तत्प्रकारकं ज्ञानं विपर्ययः, यथा रजतत्वाभाववति शुक्तिशकले रजतत्वप्रकारकं 'शुक्तौ इदं रजतम्' इति ज्ञानमित्याशयः । ८ आदिपदेन चाकचिक्यादिग्रहणम् । ६ अनिश्चयस्वरूपं संशय-विपर्ययभिन्नजातीयं ज्ञानम् । १० अनध्यवसायाख्यज्ञानस्य
__1 'पथि' इति पाठो म प्रतौ नास्ति ।