SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ न्याय-दीपिका साधारणधर्मत्वमस्ति, न तु लक्ष्यभूत गोमात्र 1 व्यावर्तकत्वम् ।। तस्माद्यथोक्तमेव लक्षणम्, तस्य कथनं लक्षणनिर्देशः । ६ विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचार: परीक्षा । सा खल्वेवं चेदेवं स्यादेवं चेदेवं न स्यादित्येवं? प्रवर्तते। $७ प्रमाणनययोरप्युद्देशः सूत्र एव कृतः । लक्षणमिदानी निर्देष्टव्यम् । परीक्षा च यथौचित्यं3 भविष्यति । 'उद्देशानुसारेण लक्षणकथनम्' इति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्लक्षणमनुशिष्यते । १ गोत्वावच्छिन्नसकलगौः २ व्यतिकीर्णवस्तुव्यावृत्ति हेतुरित्येव । ३ 'लक्षितस्य लक्षणमुपपद्यते नवेति विचार: परीक्षा'- (तर्कसं पदक पृ० ५)। ४ 'प्रमाणनयैरधिगमः' इति तत्त्वार्थसूत्रस्य पूर्वोल्लिखिते सूत्रे । ५ यथावसरम् । ६ उद्देशकमेण, यथोद्दे शस्तथा निर्देश इति भावः । ७ अथ प्रमाणनययोर्मध्ये प्रमाणापेक्षया नयस्याल्पाच्तरत्वात्प्रथमतस्तस्यैवोद्देशः कर्त्तव्योऽत अाह प्रधानत्वेनेति । ननु तथापि कथं प्रमाणस्य प्रधानत्वं ? येन प्रथमं तदुद्दिश्यत इति चेदुच्यते ; प्रमाणस्याभ्यर्हितत्त्वा-" प्रधानत्वम्, अभ्यहितत्त्वं च 'प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तेर्व्यवहारहेतुत्वात् । यतो हि प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तिर्व्यवहारहेतुर्भवति नान्येष्वतोऽभ्यहितत्वं प्रमाणस्य । अथवा समुदायविषयं प्रमाणमवयव विषया नयाः । तथा चोक्तम्- “सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः" इति' ।—(तत्त्वार्थवा १-६) । ८ कथ्यते । 1 'मात्रस्य' इति द प्रतिपाठः । 2 'खल्वेवं चेदेवं स्यादेवं न स्यादित्येवं' इति प्रा प्रतिपाठः । प मु प्रतिषु 'न' पाठो नास्ति 3 'यथोचितं' इति द प्रतिपाठः !
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy