________________
१. प्रमाणसामान्यप्रकाशः
आतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दण्डः” [राजवा० भा० २-८]
५ 'असाधारणधर्मवचनं। लक्षणम्' इति केचित्; तदनुपनम'; लक्ष्यमिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसङ्गात्', दण्डादेरतद्धर्मस्यापि लक्षणत्वाच्च । किञ्चाव्याप्ताभिधानस्य लक्षणाभासस्यापि तथात्वात् । तथा हि-त्रयो लक्षणाभासभेदाः, अव्याप्तमतिव्याप्तमसम्भवि चेति । तत्र लक्ष्यैकदेशवृत्त्यव्याप्तम्, यथा गोः शावलेयत्वम् । लक्ष्यालक्ष्यवृत्त्यतिव्याप्तम्, यथा तस्यैव पशुत्वम् । बाधितलक्ष्यवृत्त्यसम्भवि, यथा नरस्य विषाणित्वम् । अत्र हि लक्ष्यैकदेशत्तिनः पुनरव्याप्तस्या
१ नैयायिकाः, हेमचन्द्राचार्या वा। २ तदयुक्तम्, सदोषत्वात् । अत्र हि लक्षणस्य लक्षणे त्रयो दोषा: सम्भवन्ति-अव्याप्तिरतिव्याप्तिर-- सम्भवश्चेति । तत्र लक्ष्यमिवचनादिनाऽसम्भवो दोष उक्तः । दण्डादेरित्यादिनाऽव्याप्तिः प्रदर्शिता। किञ्चेत्यादिना चातिव्याप्तिः कथिता । एतच्च परिशिष्टे स्पष्टम् । अत्रासाधारणत्वं तदितरावृत्तित्वं ग्राह्यम्, लक्ष्येतरावृत्तित्वमित्यर्थः । ३ सामानाधिकरण्यं द्विधा–आर्थं शाब्दञ्च । तत्रैकाधिकरणवृत्तित्वमार्थम्, यथा रूपरसयोः। शाब्दं त्वेकार्थप्रतिपादकत्वे सति समानविभक्तिकत्वं भिन्नप्रवृत्ति निमित्तानामेकस्मिन्नर्थे वृत्तित्वरूपं वा, यथा नीलं कमलमित्यत्र । प्रकृते शाब्दं सामानाधिकरण्यं ग्राह्य वचनशब्दप्रयोगात् । वचनेन हि वचनस्य शाब्द-सामानाधिकरण्यम् । तच्चासाधारणधर्मवचनस्य लक्षणत्वेऽसम्भवि । शेषं परिशिष्टे दृष्टव्यम् । ४ पुरुषानसाधारणधर्मस्यापि—दण्डादिर्न पुरुषस्यासाधारणधर्मस्तथापि लक्षणं भवतीति भावः । ५ सदोषलक्षणं लक्षणाभासम् । ६ असाधारणधर्मत्वात् । ७ यस्य लक्षणं क्रियते तल्लक्ष्यं तद्भिन्नमलक्ष्यं ज्ञेयम् ।
1 'असाधारणधर्मो लक्षणम्' इति म प प्रत्योः पाठः ।