________________
न्याय-दीपिका
वस्तुव्यावृत्तिहेतुर्लक्षणम् । तदाहुत्तिककारपादाः२ “परस्परव्यतिकरे सति येनाऽन्यत्वं लक्ष्यते तल्लक्षणम्" [तत्त्वार्थवा०२-८] इति । ___१४ द्विविध1 लक्षणम्2, आत्मभूतमनात्मभूतं चेति । तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतम् , यथाऽग्नेरौष्ण्यम् । औष्ण्यं
ह्यग्ने: स्वरूपं सदग्निमबादिभ्यो व्यावर्त्तयति । तद्विपरीतम'नात्मभूतम्4, यथा दण्ड: पुरुषस्य । दण्डिनमानयेत्युक्ते हि दण्डः पुरुषाननुप्रविष्ट एव पुरुषं "व्यावर्त्तयति । यद्भाष्यम् “तत्रात्म
योग्यस्य नाममात्रनिरूपणम्, यथा घटविवेचनप्रारब्धे घट एव विवेक्तव्यो भवति ।
१ परस्परमिलितानां वस्तूनां व्यावृत्तिजनकं यत् तल्लक्षणमिति भावः । अत्र लक्षणं लक्ष्यं, शेषं तस्य लक्षणम् । २ तत्त्वार्थवात्तिककाराः श्रीमद्भट्टाकलङ्कदेवाः। “पादाः भट्टारको देवः प्रयोज्याः पूज्यनामतः ।" आ० प० १। ३ समानधर्माधारतया परस्परविषयगमनं व्यतिकर इति, एवं यत्रान्योन्यव्यतिकरे सति, इति भावः। ४ परस्परमिलितपदार्थव्यावृत्तिकारकेण । ५ तयोर्मध्ये। ६ कथंचिदविष्वक्भावाख्यतादात्म्यसम्बन्धावच्छिन्नधर्मस्यात्मभूतलक्षणत्वम् । ७ जलादिभ्यः । ८ यद्वस्तुस्वरूपाननुप्रविष्टं तदनात्मभूतम् । भवति हि दण्ड: पुरुषस्य लक्षणम्, स च नाऽऽत्मभूतः, पुरुषादन्यत्राऽप्युपलभ्यमानत्वात् । अत एवात्मभूतलक्षणादनात्मभूतलक्षणस्य भेदः । ६ कथञ्चिद्विष्वक्भावाख्यसंयोगादिसम्बन्धावच्छिन्नस्यानात्मभूतलक्षणत्वम् । १० अदण्डिनः सकाशात् पृथक्करोति ।
1 'तद्धिविधम्' इति प्रा प्रतिपाठः । 2 'लक्षण' इति पाठः पा प्रतौ नास्ति । 4 'चेति' द प्रतौ पाठः। 3, 5 'तद्' म प मु प्रतिषु पाठः ।।