________________
१. प्रमाणसामान्यप्रकाश: गम्भीरा' इति न तत्र बालानामधिकारः । ततस्तेषां सुखोपायेन प्रमाण-नयात्मकन्याय स्वरूपप्रतिबोधकशास्त्राधिकारसम्पत्तये 'प्रकरणमिदमारभ्यते ।
[ त्रिविधायाः प्रकरणप्रवृत्तेः कथनम् ] २ इह हि प्रमाण-नयविवेचनमुद्देश-लक्षणनिर्देश-परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमशक्यत्वात् । अपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धः।
३ तत्र' विवेक्तव्यनाममात्रकथन मुद्देशः । व्यतिकीर्ण
चन्द्र-न्यायविनिश्चयविवरणादयः ।
१ न्यायविनिश्चय-प्रमाणसंग्रहश्लोकवात्तिकादयः। २ प्रोक्तलक्षणानाम् । ३ प्रवेशः । ४ अक्लेशेन । ५ निपूर्वादिणगतावित्यस्माद्धातोः करणे घञ्प्रत्यये सति न्यायशब्दसिद्धिः, नितरामियते ज्ञायतेऽर्थोऽनेनेति न्यायः, अर्थपरिच्छेदकोपायो न्याय इत्यर्थः । स च प्रमाण-नयात्मक एव 'प्रमाणनयैरधिगमः' इत्यभिहितत्वादिति, लक्षण-प्रमाण-नय-निक्षेपचतुष्टयात्मको न्याय इति च । लक्षण-प्रमाणाभ्यामर्थसिद्धिरित्यतो लक्षणप्रमाणे न्याय इत्यन्ये । प्रमाणैरर्थपरीक्षणं न्याय इत्येके । पञ्चावयववाक्यप्रयोगो न्याय इत्यपि केचित् । ६ न्यायदीपिकाख्यम् । ७ अत्र प्रकरणे । ८ अत्रेदं बोध्यम्-उद्देशस्य प्रयोजनं विवेचनीयस्य वस्तुनः परिज्ञानम् । लक्षणस्य व्यावृत्तिर्व्यवहारो वा प्रयोजनम् । परीक्षायाश्च लक्षणे दोषपरिहारः प्रयोजनम् । अत एव शास्त्रकारा उद्देशलक्षणनिर्देश-परीक्षाभिः शास्त्रप्रवृत्ति कुर्वाणा दृष्टाः । ६ अकृतोद्देशस्य पदार्थस्य । १० उद्दे शादिद्वारेण । ११ उद्दे शादिषु मध्ये । १२ विवेचन