________________
न्याय-दीपिका
[ प्रमाण-नय-विवेचनस्य पीठिका ] $१ "प्रमाणनयैरधिगमाः” इति महाशास्त्रतत्त्वार्थसूत्रम् [१-६] । तत्खलु परमपुरुषार्थ निःश्रेयससाधनसम्यग्दर्शनादि. विषयभूतजीवादितत्त्वाधिगमोपायनिरूपणपरम् । प्रमाणानयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यन्ते । तद्वयतिरेकेण जीवाद्यधिगमे प्रकारान्तरासम्भवात् । तत एव जीवाद्यधिगमोपायभूतौ प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपरा: प्राक्तनग्रन्थाः१३ सन्त्येव, तथापि ते2 केचिद्विस्तृताः, केचिद्
मानसस्य वा विस्तरत: संक्षेपतो वा शास्त्रकारैरवश्यंकरणात् । तदकरणे तेषां तत्कृतोपकारविस्मरणादसाधुत्वप्रसङ्गात् । साधूनां कृतस्योपकारस्याविस्मरणप्रसिद्धेः । 'न हि कृतमुपकारं साधवो विस्मरन्ति' इति वचनात् ।' -प्राप्तपरी० पृ० ३ । परमेष्ठिगुणस्तोत्ररूपस्य मङ्गलस्य पुण्यावाप्तिरधर्मप्रध्वंसः फलमिति तु तत्त्वम् । अतो ग्रन्थादौ मङ्गलमवश्यमाचरणीयमिति ।
१ मोक्षशास्त्रापरनामधेयम् । २ सूत्रम् । ३ चत्वारः पुरुषार्था:धर्मार्थकाममोक्षाः, तेषु परमः पुरुषार्थो मोक्षः, स एव निश्रेयसमित्युच्यते । सकलप्राणिभिर्मुख्यसाध्यत्वेनाभीष्टत्वान्मोक्षस्य परमपुरुषार्थत्वमिति भावः । ४ अादिपदात्सम्यग्ज्ञानं सम्यक्चारित्रं च गृह्यते । ५ अत्रादिपदेनाऽजीवास्रवबन्धसंवरनिर्जरामोक्षतत्त्वानि गृहीतव्यानि । ६ पृथक्कृताः विश्लेषिता इत्यर्थः । ७ ज्ञायन्ते । ८ प्रमाणनयाभ्यां विना । ६ प्रमाणनयातिरिक्त-तृतीयादिप्रकारस्याभावात् । १० प्रकारान्तरासम्भवादेव । ११ व्याख्यातव्यौ। १२ प्रमाण-नयव्याख्यानतत्पराः । १३ अकलङ्कादिप्रणीता न्यायविनिश्चयादयः। १४ प्रमेयकमलमार्तण्ड-न्यायकुमुद
1 द मा प्रत्योः 'हि' पाठो नास्ति । 2 प म मु प्रतिषु 'ते' पाठो नास्ति ।